SearchBrowseAboutContactDonate
Page Preview
Page 238
Loading...
Download File
Download File
Page Text
________________ आगम (२८-वृ) ཊྛཡྻོཝཱ ཎྜོ + ཎྜལླཡྻ ॥४९॥ “तन्दुलवैचारिकं” – प्रकीर्णकसूत्र - ५ ( मूलं + अवचूर्णि:) मूलं [१४] / गाथा ||४९...|| मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र- [ २८-वृ], प्रकीर्णकसूत्र [५] “तंदुलवैचारिकं” मूलं एवं विजयविमल गणि कृता अवचूर्णि: ओघः प्रवाहः तद्वत् स्वरो येषां ते ओघस्वराः, मेघस्येवातिदीर्घः स्वरो येषां ते मेघस्वराः, हंसस्येव मधुरः स्वरो येषां ते हंसस्वराः, क्रौंचस्येवाप्रयासविनिर्गतोऽपि दीर्घदेशव्यापी स्वरो येषां ते क्रौंचस्वराः, नन्दि:- द्वादशतूर्यसङ्घातस्तद्वत् | स्वरो येषां ते नन्दिस्वराः, नन्द्या इव घोषो-नादो येषां ते नन्दिघोषाः सिंहस्येव प्रभूतदेशव्यापी स्वरो येषां ते * सिंहस्वराः सिंहघोषाः मज्जुः प्रियः स्वरो येषां ते मञ्जुस्वराः मञ्जुः घोषो येषां ते मञ्जुघोषाः, एतदेव पदद्वयेन व्याचष्टेसुस्वराः सुस्वरघोषाः, अनुलोमः - अनुकूलो वायुवेगः- शरीरान्तर्वर्त्तिवातजवो येषां ते अनुलोमवायुवेगाः, वायुगुल्मर - हितोदर मध्यप्रदेशा इति भावः, कङ्कः पक्षिविशेषः तस्येव ग्रहणिः-गुदाशयो नीरोगवर्चस्कतया येषां ते कङ्कग्रहणयः, कपोतस्येव पक्षिविशेषस्य परिणामः- आहारपाको येषां ते कपोतपरिणामाः, कपोतस्य हि जठराग्निः पाषाणलवानपि जरयतीति श्रुतिः, एवं तेषामपि अत्यर्गला हारग्रहणेऽपि न जातुचिदप्यजीर्णदोषो भवतीति शकुनेरिव पक्षिण इव पुरीषो त्सर्गे निर्लेपतया 'फोर्स'ति फोसः - अपानदेशः 'फुस उत्सर्गे' फुसन्ति-पुरीषमुत्सृजन्ति अनेनेति व्युत्पत्तेः, तथा पृष्ठं - प्रतीतं अन्तरे च- पृष्ठोदरयोरन्तराले पार्श्वावित्यर्थः ऊरू-जङ्घ चेति द्वन्द्वस्ते परिणता - विशिष्टपरिणामवन्तो येषां ते | शकुनिप्फोसपृष्ठान्तरोरुपरिणताः, पद्मं कमलं उत्पलं- नीलोत्पलं यद्वा पद्मं पद्मकाभिधानं गन्धद्रव्यं उत्पलं च- उत्पटकुष्ठं तयोः गन्धेन-सौरभेण सदृशः-समो यो निःश्वासस्तेन सुरभि - सुगन्धि वदनं मुखं येषां ते पद्मोत्पलगन्धसदृशनिःश्वाससुरभिवदनाः 'छवी'ति छविमन्तः उद्दीष्ठवर्णया सुकुमालया च त्वचा युक्ता इति भावः, निरातङ्का-नीरोगा | इत्यर्थः उत्तमा- उत्तमलक्षणोपेताः प्रशस्ताः अतिशेषा-कर्मभूमिकमनुष्यापेक्षया अतिशायिनी अत एव निरुपमा तं. वै. प्र. ५ Fur Prate & Pomonal Use Only ~238~ Kandbrary.g
SR No.035040
Book TitleSavruttik Aagam Sootraani 1 Part 40 Kalpsutra Moolam Chatusharan Tandulvaicharik Gacchachar Mool evam VruttiMool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages394
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size105 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy