________________
आगम
(२८-वृ)
ཊྛཱམྦྷོཡཱ ཎྜོ + ཋལླཡྻ
॥४९॥
Jass Education
“तन्दुलवैचारिकं” – प्रकीर्णकसूत्र - ५ ( मूलं + अवचूर्णि:)
मूलं [१४] / गाथा ||४९...||
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र [२८-वृ], प्रकीर्णकसूत्र [५] “तंदुलवैचारिकं मूलं एवं विजयविमल गणि कृता अवचूर्णि:
वदनस्यावयवो येषां ते तथा, अचिरोद्गतः समग्रः - सम्पूर्णः सुस्निग्धः चन्द्रः - शशी तस्यार्द्धवत् संस्थितं संस्थानं यस्य ललाटस्य तत्तथा तदेवंविधं 'निडाल' त्ति ललाटं -भालं येषां ते अचिरोद्गतसमग्रसुस्निग्धचन्द्रार्धसंस्थितललाटाः, उडु पतिरिव चन्द्र इव प्रतिपूर्ण सौम्यं यदनं येषां ते उडुपतिप्रतिपूर्णसौम्यवदनाः, छत्राकारोत्तमाङ्गदेशा इति कण्ठ्यं, घनो-लोहमुद्गरस्तद्वन्निचितं निबिडं यद्वा घनं अतिशयेन निचितं सुबद्धं स्नायुभिः लक्षणोन्नतं महालक्षणं कूटागारनिभं सशि खरभवनतुल्यं निरुपम पिण्डिकेव वर्तुलत्वेन पिण्डिकायमानं अग्रशिरः- शिरोऽयं येषां ते घननिचितसुबद्धलक्षणोन्नतकूटागारनिभनिरुपमपिण्डिकाग्रशिरसः, हुतवहेन अग्निना निर्ध्यातं धौतं तप्तं च यत्तपनीयं - रक्तवर्णसुवर्ण तद्वत् 'केसंत'त्ति मध्यकेशाः केशभूमिः - मस्तकत्वग् येषां ते हुतवहनिर्मातधौततप्ततपनीय केशान्त केशभूमयः, शाल्मली-वृक्षविशेषः स च प्रतीत एव तस्य बोंडं फलं तद्वत् छोटिता अपि घना निचिता-अतिशयेन निचिताः शाल्म लीबोण्डघननिचितच्छोटिताः, ते हि युगलधार्मिकाः केशपाशं न कुर्वन्ति परिज्ञानाभावात् केवलं छोटिता अपि तथा स्वभावतया शाल्मलीयोण्डाकारवत् घननिचिता अवतिष्ठन्तं तत एतद्विशेषणोपादानं, तथा मृदवः- अकर्कशाः विशदानिर्मलाः सूक्ष्माः श्लक्ष्णाः लक्षणा - लक्षणवन्तः प्रशस्ताः - प्रशंसाऽऽस्पदीभूताः सुगन्धयः- परमगन्धकलिताः अत एव सुन्दराः तथा भुजमोचको रत्नविशेषः भृङ्गः चतुरिन्द्रियपक्षिविशेषः नीठो-मरकतमणिः कज्जलं प्रतीतं प्रहृष्टः- प्रमुदितो यो भ्रमरगणः प्रहृष्टभ्रमरगणः प्रहृष्टो हि भ्रमरगण तारुण्यावस्थायां भवति तदानीं चातिकृष्ण इति प्रहृष्टग्रहणं तद्वत् स्निग्धाः कालकान्तयः भुजमोचक भृङ्गनीलकज्जलप्रहृष्टभ्रमरगणस्निग्धाः तथा निकुरम्बाः - निकुरम्बीभूताः सन्तः निचिताः
Fur Prate & Pemonal Use Only
~236~
jainelibrary.org