SearchBrowseAboutContactDonate
Page Preview
Page 183
Loading...
Download File
Download File
Page Text
________________ आगम (२४-व) “चतुःशरण” – प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:) -------------------- मूलं ||४९-५४||------------ मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२४/वृ), प्रकीर्णकसूत्र-[१] “चतुःशरण मूलं एवं विजयविमलगणि कृता अवचूर्णि: प्रत सूत्रांक ||४९-५४|| टशेषः, तथा विरचितं-कृतं कारितमनुमतं चातीतानागतवर्तमानकाले, यच्चान्यदपि जिनधर्मप्रत्यनीकत्ववितथप्ररूपणाप रदेवधर्मस्थानादिरूपं, इदानीमवगतपरमार्थस्तत्पापं गर्हामि-निन्दामि गुरुसमक्षमालोचयामीत्यर्थः ॥५१॥ श्रुतं च धर्मश्च संघश्च साधवश्च श्रुतधर्मसंघसाधवः तेषु पापं-आशातनारूपं प्रत्यनीकतया-विद्विष्टभावेन यद्रचितं, तत्र श्रुतस्य-द्वादशांगरूपस्य तदध्येत्रध्यापकानामुपरि यदरुच्यबहुमानादि चिन्तनं 'अज्ञानमेव शोभन'मिति भणता पूर्वभवे माषतुषस्येव धर्मप्रत्यनीकता 'कविला इत्थंपि इयंपीति भणतो मरीचेरिव संघप्रत्यनीकतां संमेतशैलयात्रागच्छत्श्रीसंघविलुण्टकानां सगरसुतजीवपूर्वभवचौराणामिव साधुप्रत्यनीकता गजसुकुमालं प्रति सोमिलद्विजस्येव, तथा सर्वेषांश्रुतधर्मादाचार्योपाध्यायसाधूनामुपरि प्रत्यनीकता नमुचिदत्तगोशालकादीनामिव ज्ञेया, तथाऽन्येष्वपि पापेषु-3 अष्टादशसु प्राणातिपातादिषु यत् किमपि पापं-जीवव्यपरोपणादिकं कृतं तदप्यधुना गर्हामीत्यर्थः ॥ ५२ ॥ यच्चोक्तं-18 'अन्नेसु अ पावेसुत्ति तदेव व्यक्तीकर्तुमाह-अन्येष्वपि जीवेषु-तीर्थकरादिव्यतिरिक्तेषु एकेन्द्रियादिसर्वभेदभिन्नेषु मैत्रीकारुण्यमाध्यस्थ्यानि विधेयतया गोचरो-विषयो येषां ते तथा तेषु कृतं-निष्पादितं 'परिआवणाई'त्ति परि-18 तापनारूपमध्यपदग्रहणात्तुलादण्डन्यायेनाभिहतादिभिर्दशभिः पदैस्तेषु जीवेषु यत्किमपि दुःख-कष्टं कृतमिदानीं तदपि पापं गर्हामि-जुगुप्साम्यालोचयामीतियावत् ॥ ५३॥ अथोपसंहारमाह-यत्किञ्चित् पापं कृत्यं मनोवाकायै राग-| द्वेषमोहाज्ञानवशात् कृतकारितानुमतिभिराचरितं-विहितं धर्मस्य-जिनधर्मस्य विरुद्धं-प्रतिकूलं अतएवाशुद्ध-सदोषं सर्व दीप अनुक्रम [४९-५४] ~183~
SR No.035040
Book TitleSavruttik Aagam Sootraani 1 Part 40 Kalpsutra Moolam Chatusharan Tandulvaicharik Gacchachar Mool evam VruttiMool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages394
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size105 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy