________________
आगम
(२४-वृ)
प्रत
सूत्रांक
||२३
-२९||
दीप
अनुक्रम [२३-२९]
Jass Education I
“चतुःशरण” – प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:)
मूलं ||२३-२९||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ २४/वृ], प्रकीर्णकसूत्र-[१] “चतुःशरण” मूलं एवं विजयविमलगणि कृता अवचूर्णिः
येषां ते तथा, मङ्गलरूपाः सिद्धाः - सम्पन्नाः पदार्था येषां ते तथा, यद्वा सांसारिकदुःखरहितं मङ्गलभूतं यत् सिद्धिपदं तत्र तिष्ठन्ति इति ते तथा, ते सिद्धाः शरणं भवन्तु, पुनः कथंभूताः ? - सुखेन जन्मजरामरणक्षुत्तृषाद्यावाधारहितेन मुक्तिप्रभवेन प्रशस्ताः अव्याकुला अनन्तसुखा इत्यर्थः ॥ २५ ॥ 'मूलुक्खय'त्ति, मूलादुत्खाता:उन्मूलिताः प्रतिपक्षाः - कर्मरूपा यैस्ते तथा समूलनिर्मूलितकर्माण इत्यर्थः, 'मूलक्खए 'ति पाठेऽयमर्थो - मूलस्य| संसारहेतुकर्मबन्धमूलस्य मिथ्यात्वाविरतिकपाययोगरूपस्य शत्रुसङ्घातस्य क्षये कर्तव्ये प्रतिपक्षा इव-वैरिण इव तज्जयं कृतवन्त इत्यर्थः तथा लक्ष्ये- द्रष्टव्यपदार्थे न मूढा अमूढलक्षाः सदोपयुक्तत्वात्तेषां तथा सयोगिनां - सयोगिकेवलिनामेव प्रत्यक्षा- दृश्याः, शेषज्ञानिनां अविषयत्वात् सिद्धानां तथा स्वाभाविकं - अकृत्रिममात्तं गृहीतमाप्तं प्राप्तं वा सुखं यैस्ते तथा, पुनः किंविशिष्टाः ? – परमः - प्रकृष्टोऽत्यन्तं विगमात्कर्मभिः सह मोक्षो वियोगः पृथग्भावो येषां ते तथा, ते सिद्धाः शरणं भवन्तु ॥ २६ ॥ 'पडिपिल्लिअ'त्ति, प्रतिप्रेरिताः क्षिप्ता अनादृता इत्यर्थः प्रत्यनीकाः - शत्रवो यैः समशत्रु मित्रत्वात्, यद्वा प्रतिप्रेरिता- निराकृताः प्रत्यनीका- रागाद्यान्तरशत्रवो यैस्ते तथा समग्र - सम्पूर्ण यद्ध्यानं परमलयः शुक्लध्यानमित्यर्थः तदेवाग्निः - वह्निस्तेन दग्धं भस्मसात्कृतं भवस्य - संसारस्य बीजं - ज्ञानावरणीयादि कर्म यैस्ते तथा, योगीश्वरा - गणधराञ्छद्मस्थतीर्थकरा वा तै शरणीयाः- आश्रयणीया नमस्करणध्यानादिना तथा स्मरणीया ध्येया मोक्षसुखाभिलाषुकाणां भव्यानामिति शेषः, एवंविधाः सिद्धाः शरणं भवन्तु ॥ २७ ॥ 'पाविअ'त्ति, प्रापितः - आत्मजीवं प्रति ढौकितः प्राकृतत्वाद्वा प्राप्तः परमानन्दो यैः सदामुदितत्वात्ते तथा, तथा गुणानां ज्ञानदर्शना
For Pale & Pomonal Use Only
~ 165~
jainelibrary.org