SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ आगम (२४-व) “चतुःशरण” – प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:) --------------------- मलं ||२३-२९||------------- मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२४/व), प्रकीर्णकसूत्र-[१] “चतुःशरण मूलं एवं विजयविमलगणि कृता अवचूर्णि: प्रत २९ सूत्रांक ||२३-२९|| चतुःशरणे भूतः -प्रणत-भक्तिवशेन नम्रीभूतं यच्छिरस्तत्र रचितः करकमलाभ्यां शेखरो येन स तथा, एवंभूतः सन् सहर्ष सिद्धशरणं भणति ॥ २३ ॥ यच्चाय भणति तद्गाथापदेनाह-कम्मट्ठ'त्ति, कर्माष्टकक्षयेण सिद्धाः-प्रसिद्धाः ते तीर्थसिद्धादिभेदेन |गा. २३. ॥ ६४॥ पञ्चदशधा, तानाह-तीर्थसिद्धाः प्रसन्नचन्द्रसनत्कुमारादयः१ अतीर्थसिद्धा मरुदेव्यादिकाः २ गृहलिङ्गसिद्धाः पुण्याच्यादिकाः ३ अन्यलिङ्गसिद्धा वल्कलचीयर्यादिकाः ४ स्वलिङ्गसिद्धा जम्बूस्वाम्यादिकाः ५ स्त्रीलिङ्गसिद्धा राजीमत्यादिकाः ६ नरसिद्धा भरतादिकाः ७ कृत्रिमनपुंसकसिद्धाः गुणसेनादिकाः ८ प्रत्येकबुद्धसिद्धा नमिराजादिकाः ९ स्वयंबुद्ध-IG सिद्धाः समुद्रपालादिकाः १० बुद्धबोधितसिद्धाः त्रिकाधिकपश्चदशशततापसादिकाः ११ एकसिद्धाः गजसुकुमालादिकाः | १२ अनेकसिद्धा भरतपुत्रादिकाः १३ अजिनसिद्धाः पुण्डरीकगीतमादिकाः १४ जिनसिद्धा आदिनाथादिकाः १५ पुनः18 | कथंभूताः -स्वाभाविके-निरावरणे ये अनवच्छिन्ने ज्ञानदर्शने ताभ्यां समृद्धाः-स्फीताः स्फातिमन्तः, तथाऽर्थ्यन्ते-अभि लष्यन्ते इत्यर्थाः सर्वे च तेऽथांश्च तेषां लब्धयः-प्राप्तयः सर्वार्थलब्धयः सिद्धा-निष्पन्नाः सर्वार्थलब्धयो येषां ते तथा, सिद्धसर्वकार्याः-प्राप्तसर्वसुखज्ञानादिभावाः कृतकृत्या इत्यर्थः, आपत्वात् सिद्धशब्दस्याग्रे निपातः, सर्वार्थलब्धिभिः सिद्धा| निष्ठिता इत्येवं वा समासः, ते सिद्धा मम शरणं भवन्तु ॥ २४ ॥ 'तिअलोय'त्ति, त्रैलोक्यस्य-चतुर्दशरज्ज्वात्मकस्य | यन्मस्तकं-सर्वोपरिवर्तिस्थानं पञ्चचत्वारिंशल्लक्षयोजनविस्तीर्णेषत्पाग्भाराख्यसिद्धिशिलाया उपरितनयोजनसत्कोपरितन४/चतुर्विंशतितमभागरूप आकाशदेशस्तत्र तिष्ठन्तीति त्रैलोक्यमस्तकस्थाः , तथा परमपदं-मोक्षपदं सर्वकर्मरहितत्वरूपं 8 का ॥ ४ ॥ है तद्धेतुत्वाच्चारित्रादिक्रियाकलापस्य तत्र तिष्ठन्तीति ते तथा, अचिन्त्यमनन्तत्वात् सामर्थ्य-जीवशक्तिविशेषो बलं SOCIEOSSSCROSSOCIS-A2 दीप अनुक्रम [२३-२९] ~164
SR No.035040
Book TitleSavruttik Aagam Sootraani 1 Part 40 Kalpsutra Moolam Chatusharan Tandulvaicharik Gacchachar Mool evam VruttiMool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages394
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size105 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy