SearchBrowseAboutContactDonate
Page Preview
Page 162
Loading...
Download File
Download File
Page Text
________________ आगम (२४-वृ) प्रत सूत्रांक ||१३ -२२|| दीप अनुक्रम [१३-२२] चतुःशरणे ॥ ६३ ॥ Jass Education “चतुःशरण” – प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णि:) मूलं ||१३-२२|| मुनि दीपरत्नसागरेण संकलित आगमसूत्र [२४/वृ], प्रकीर्णकसूत्र -[१] “चतुःशरण” मूलं एवं विजयविमलगणि कृता अवचूर्णिः | दिकेषु प्रागुक्तं भुवनमेव स्थापयित्वा स्थापयन्तो वा सदुपदेशवशात्तानि प्रापयन्त इत्यर्थः, तथा जीवलोकं भव्यजीवलोकं, अभव्यास्तु तीर्थकरोपदेशेनापि नावबुध्यन्ते, तमुद्धृत्य उध्धरन्तो वा भवान्धकूपात् स्ववचनरज्जुनाऽऽकर्षयन्त इत्यर्थः, शेषं पूर्ववत् ॥ २० ॥ 'अच्चन्भुअ' त्ति अत्यद्भुता - अन्येष्वसंभविनो ये गुणाः- प्रातीहार्यादिलक्षणाः अन्ये वा रूपादयस्ते विद्यन्ते येषां ते अत्यद्भुत गुणवन्तस्तान्, तथा निजयश एवं शशधरः- चन्द्रस्तेन प्रसाधिता-विभूषिता दिगन्ता- दिक्पर्यन्ता यैः 'पयासिअ' ति पाठे प्रकाशिता वा यैस्तान् नियतं शाश्वतं यथा भवत्येवं सदैवेत्यर्थः, न आदि न चान्तो येषां ते अनाद्यनन्तास्तान् शरणं प्रपन्नः तानाश्रित इत्यर्थः, एतेन कालत्रयभाविनोऽनंता अपि जिना गृहीताः ॥ २१ ॥ अथ कृतार्हच्छरणो विशेषेण तेषां नमस्कारमाह-'उज्झि' त्ति, उज्झितानि त्यक्तानि जरामरणानि यैस्तत्कारणकर्मरहितत्वात्ते उज्झितजरामरणास्तेभ्यः, समस्तानि - सम्पूर्णानि यानि दुःखानि तैरार्ता ऋता वा पीडिता ये सत्त्वाः प्राणिनस्तेषां शर ज्याः-शरणे साधवस्तेभ्यः, यद्वा समाप्तं -निष्ठां गतं दुःखं येषां ते समाप्तदुःखाः, तथा आर्ता - जन्मजरामरणादिदुःखैः पीडिता ये सत्त्वास्तेषां शरण्याः, समाप्तदुःखाश्च ते आर्तसत्त्वशरण्याश्चेति विशेषणकर्मधारयः तेभ्यः, तथा त्रिभुवनजनानां सुखं ददति निजावतारेणेति त्रिभुवनजनसुखदास्तेभ्यः, सर्वत्र चतुर्थ्यर्थे षष्ठी 'छट्ठीविभत्तीह भण्णइ चउत्थी' इति प्राकृतसूत्रबलात्, तेभ्यः- पूर्वोक्तगुणेभ्योऽर्हद्भ्यो नमो-नमस्कारोऽस्तु ॥ २२ ॥ अथ द्वितीयं शरणं यथा प्रतिपद्यते तथाऽऽहअरिहंतसरणमलसुद्धिलद्धसुविसुद्ध सिद्धबहुमाणो । पणयसिररइअकरकमलसेहरो सहरिसं भणइ ॥ २३ ॥ Fur Prate & Pomonal Use Only ~ 162 ~ अर्हच्छरणं गा. १२.. २२ ॥ ६३ ॥ jainelibrary.org
SR No.035040
Book TitleSavruttik Aagam Sootraani 1 Part 40 Kalpsutra Moolam Chatusharan Tandulvaicharik Gacchachar Mool evam VruttiMool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages394
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_kalpsutra
File Size105 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy