________________
आगम
(२४-वृ)
प्रत सूत्रांक
||१३
-२२||
दीप
अनुक्रम
[१३-२२]
Je Educatio
“चतुःशरण” – प्रकीर्णकसूत्र-१ (मूलं+अवचूर्णिः)
मूलं ||१३-२२||
मुनि दीपरत्नसागरेण संकलित आगमसूत्र- [ २४/वृ], प्रकीर्णकसूत्र [१] “चतुःशरण” मूलं एवं विजयविमलगणि कृता अवचूर्णि:
भाषण हेतुरागद्वेष मोहरहितत्वात्तेषां तथा ब्रह्मत्रतं अष्टादशभेदं 'दिव्यौदारिककामानां ' ( कृतानुमतिकारितैः । मनोवा|कायतस्त्यागो, ब्रह्माष्टदशधा मतम् ॥ १ ॥) इति श्लोकोक्तमासेवितुं प्ररूपयितुमनुमोदयितुं चार्हन्तः, शेषं तथैव ॥ १७ ॥ तथा 'ओस'त्ति अवस्त्रियते गम्यते संसारभयोद्विग्नैः जीवैरित्यवसरणं समवसरणमित्यर्थः तदवसृत्य - अलंकृत्य, तथा चतु स्त्रिंशतो - जन्मजकर्मक्षयजसुरकृतान् यथाक्रमं चतुरेकादशैकोनविंशतिसङ्ख्याप्रसिद्धानतिशयान्निषेव्य, उपलक्षणत्वात्पञ्चत्रिंशद्वचनातिशयांश्च तथा धर्मकथां कथयित्वा ये मुक्तिं यान्ति यास्यन्ति याता इत्यध्याहार्य 'कहंता' इति पाठे धर्मकथां कथयन्तो ये वर्त्तन्ते ते शरणं, पूर्व धर्मकथाकथनयोग्या इत्युक्तं अत्र तु धर्मकथां कथयन्त एवेति न पौनरुक्त्यं, अत्र चाध्ययनेऽन्यत्रापि यत्र कुत्रचित् पौनरुक्त्यसम्भवः तत्र स्तुत्युपदेशरूपत्वेन न दोष इति ज्ञेयं, यदुक्तं- 'सज्झायज्झाणतवोसहेसु उवएसथुइपयाणेसु । संतगुणकित्तणेसु अ न हुंति पुणरुत्तदोसा उ || १ || [ स्वाध्यायध्यानतपऔषधेषु उपदेशस्तुतिप्रदानेषु । सतां गुणकीर्त्तनेषु च न भवन्ति पुनरुक्तदोषास्तु ॥ १ ॥] शेषं तथैव ॥ १८ ॥ 'एगाइ गिर' त्ति एकयाऽपि गिरा - एकेनापि वचनेन अनेकप्रकारान् संदेहान् संशयान् केषां ?- देहिनां सुरासुरनर तिर्यगूरूपाणां समं - समकालमेव छित्त्वा संशयत्रुटिं कृत्वेत्यर्थः 'समुच्छित्ते 'ति पाठे समुच्छिद्येति ज्ञेयं, त्रिभुवनमनुशास्य-शिक्षयित्वा अनुशास यन्तो वा सम्यक्त्व देशविर तिसर्वविरतिलक्षणशिक्षाप्रदानेन, मोक्षं यान्तीति योगः, शेषं तथैव ॥ १९ ॥ 'वयणा' इति वचनमेवामृतं वचनामृतं क्षुत्पिपासादिदोषापहारकत्वात् तेन वचनामृतेन भुवनं लोकं निर्वाप्य तस्य तृप्तिमुत्पाद्य निर्वापयन्तो वा प्रीणयन्तः आप्याययन्त इत्यर्थः तथा गुणेषु - उत्तरोत्तरगुणस्थानकेषु सम्यक्त्व देशबिरतिप्रमत्ताप्रमत्ता
Fur Prate & Pomonal Use Only
~ 161~
·444444
jainelibrary.org