________________
आगम
(४५)
प्रत
सूत्रांक
[१६]
दीप
अनुक्रम
[१७]
[भाग-३९] “अनुयोगद्वार” - चूलिकासूत्र - २ (मूलं + वृत्ति:)
मूलं [१६] / गाथा ||१...|| ......
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः
अथ किं तत् शशरीरद्रव्यावश्यकमिति प्रश्ने निर्वचनमाह-- 'जाणगसरीरदव्यावस्सयं आवस्सएसीत्यादि, ज्ञानवानिति ज्ञः, प्रतिक्षणं शीर्यत इति शरीरं ज्ञस्य शरीरं ज्ञशरीरं तदेव अनुभूतभावत्वाद् द्रच्यावश्यके, किं तदित्याह यच्छरीरकं संज्ञायां कच् वपुरित्यर्थः कस्य सम्बन्धीत्याह- 'आवस्सएतीत्यादि, आवश्यकमिति यत्पदं आवश्यकपदाभिधेयं शास्त्रमित्यर्थः, तस्यार्थ एवार्थाधिकारोऽनेके वा तद्गतार्थाधिकारा गृह्यन्ते, तस्य तेषां वा ज्ञातुः सम्बन्धि, कथंभूतं तदिदं ज्ञशरीरं द्रव्यावश्यकं भवतीत्याह-व्यपगतच्युतच्या वितत्यतदेहं जीवविप्रमुक्तमित्यक्षरयोजना, इदानीं भावार्थ: कश्चिदुच्यते-तत्र व्यपगतं -चैतन्यपर्यायादचैतन्यलक्षणं पर्यायान्तरं प्राप्तम्, अत एव च्युतं - उच्छ्रासनिःश्वासजीवितादिदशविधप्राणेश्यः परिभ्रष्टम्, अचेतनस्योच्छ्वासाथयोग्यत्वादन्यथा लेष्ट्वादीनामपि तत्प्रसङ्गात्, तेभ्यश्च परिभ्रंशस्तु खभाववादिभिः कैश्चित् स्वभावत एवाभ्युपगम्यते, तदपोहार्थमाह-व्यावितं बलीयसा आयुःक्षयेण तेभ्यः परिभ्रंशितं, न तु स्वभावतः, तस्य सदाऽवस्थितत्वेन सर्वदा तत्प्रसङ्गादू, एवं च सति कथंभूतं तदित्याह त्यक्तदेहं - 'दिह उपचये त्यक्तो देह आहारपरिणतिजनित उपचयो येन तत् त्यक्तदेहम्, अचेतनस्याऽऽहारग्रहणपरिणतेरभावात्, एवमुक्तेन विधिना जीवेन-आत्मना विविधम्- अनेकधा प्रकर्षेण मुक्तं जीवविप्रमुक्तं, तदेतदावश्यकं ज्ञस्य शरीरमतीतावश्यकभावस्य कारणत्वाद् द्रव्यावश्यकम्, अस्य च नोआगमत्वमागमस्य तदानीं सर्वथाऽभावात्, नोशब्दस्य चात्र पक्षे सर्वनिषेधवचनत्वादिति भावः । ननु
For P&Pase Cnly
~50~