SearchBrowseAboutContactDonate
Page Preview
Page 425
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [१४५ ] दीप अनुक्रम [२९९] [भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः) मूलं [ १४५] / गाथा ||११४...|| पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः अनुयो० मलधा रीवा ॥ २०७ ॥ षष्ठो वर्ग: पूर्वोक्तेन पञ्चमवर्गेण गुण्यते, तथा च सति या सङ्ख्या भवति तस्था जघन्यपदिनो गर्भजमनुष्या वर्तन्ते सा चेयम् ७९२२८१६२५१४२६४३३७५९३५४३९५०३३६ अयं च राशिः कोटीकोट्यादिप्रकारेण केनाप्यभिधातुं न शक्यते अतः पर्यन्तादारभ्याङ्कमानसङ्ग्रहार्थ गाथाद्वयम् -'छत्तिन्नि तिन्नि सुन्नं पंचैव य नव यू प्रमाणद्वार तिन्नि चतारि । पंचेव तिष्णि नव पंच सत्त तिन्नेव तिन्नेव ॥ १ ॥ चड छ दो चड एक्को पण दो छक्कगो य अहेव । दो दो नव सत्तेव य अंकद्वाणा पराहृन्ता ॥ २ ॥ तदेवमेतेष्वेकोनत्रिंशदङ्कस्थानेषु जधन्यपदिनो गर्भजमनुष्या वर्तन्ते इति स्थितम् । अमुमेवार्थ प्रकारान्तरेणाह - 'अहव णं छनउईच्छेयणगयाई रासित्ति छेदनकं राशेरद्धकरणं ततः षण्णवतिच्छेदनानि यो राशिददाति पर्यन्ते च परिपूर्णैकरूपपर्यवसितो भवति न तु खण्डितरूपपर्यवसितः स प्रकृतमनुष्यसङ्ख्याखरूपो मन्तव्यः, स चायमेवैकोनत्रिंशदङ्कस्थाननिष्पन्नोऽनन्तरदर्शितो नान्यः, अयं हि पुनः पुनश्छिद्यमानोऽद्धीक्रियमाणः षण्णवतिच्छेदान् क्षमते, पर्यन्ते च परिपूर्णेकरूपपर्यवसितो भवतीति षण्णवतिच्छेदनकदायी प्रोच्यते, कथं पुनः षण्णवतिच्छेदनानि भाव्यन्ते ?, उच्यते, प्रथमो वर्गवतुष्टयरूपो यो दर्शितस्तत्र द्वे छेदने भवतः, तथाहि चतुर्णाम द्वौ तयोरप्यर्द्ध एक इत्येवमुत्तरेष्वपि वर्गेषु भावनीयं, द्वितीये तु वर्गे चत्वारि छेदनानि संपयन्ते, तृतीये अष्टा, चतुर्थे षोडश, पञ्चमे द्वात्रिंशत्, षष्ठे चतुःषष्टिः, पञ्चमस्तु षष्ठेन गुणित आस्ते, अतः पञ्चमसत्कान्यपि छेदनकानि षष्ठे प्रविष्टानि प्राप्यन्त इत्युभयगतान्यपि मील्यन्ते, ततो जातानि प्रस्तुतराशौ षण्णवतिच्छेदनकानि खयमेव वा पुनः पुनश्छेदं कृत्वा For P&False City ~425~ वृत्तिः उपक्रमे ॥२०७॥
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy