SearchBrowseAboutContactDonate
Page Preview
Page 423
Loading...
Download File
Download File
Page Text
________________ आगम (४५) प्रत सूत्रांक [ १४५ ] दीप अनुक्रम [२९९] [भाग-३९] “अनुयोगद्वार " - चूलिकासूत्र - २ ( मूलं+वृत्तिः) मूलं [ १४५] / गाथा ||११४...|| पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित ... आगमसूत्र -[ ४५], चूलिकासूत्र - [२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्तिः जघन्यत उत्कृष्टतश्चान्तर्मुहूर्तस्थितिकत्वेन परतः सर्वेषां निर्लेपत्वसम्भवात् यदा तु भवन्ति तदा जघन्यत एको दी भयो वा उत्कृष्टतस्त्वसङ्ख्याताः इतरे तु सर्वदैव सङ्ख्येया भवन्ति, नासङ्ख्येयाः; तत्र सम्मूछेजा यदा न भवन्ति तदैव जघन्यपदिनो गर्भजा एव गृह्यन्ते, अन्यथा जघन्यपवर्तित्वमेव न स्यात्, ते च स्वभावात् सङ्ख्येया एव, अतस्तच्छरीराण्यपि बद्धानि सङ्ख्येयान्येव, अत उक्तं- 'जहणपए संखेज 'न्ति, ॥ २०६ ॥ सङ्ख्येयकस्य सङ्ख्यात भेदत्वान्न ज्ञायते कियदपि सख्येयकमित्याह-सङ्ख्येयाः कोटी कोटयः, पुनर्विशेषितं तमाह - 'तिजमलपयस्स उवरिं चउजमलपयस्स हेड'ति इदमुक्तं भवति-अष्टानामष्टानामङ्कस्थानानां यमलपदमिति सामयिकी संज्ञा, ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदं चतुर्विंशत्यङ्कस्थानलक्षणम्, अथवा तृतीयं यमलपदं षोडशानामङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमिति स एवार्थः, तस्य त्रिय| मलपदस्य उपरि प्रस्तुतमनुष्या भवन्ति, चतुर्विंशत्यङ्कस्थानान्यतिक्रम्य जघन्यपदवर्तिनां गर्भजमनुष्याणां सङ्ख्या वर्तत इत्यर्थः तर्हि चतुरादीन्यपि यमलपदानि भवन्ति ? नेत्याह- 'चउजमलपयस्स हेट्ठति चतुर्णी यमलपदानां समाहारश्चतुर्यमलपदं- द्वात्रिंशदङ्कस्थानलक्षणम्, अथवा चतुर्थ यमलपदं चतुर्यमलपदं चतुर्विंशतेरङ्कस्थानानामुपरितनाङ्काष्टकलक्षणमित्येक एवार्थः, तस्य चतुर्यमल पद स्याधस्तादेकोनत्रिंशदङ्कस्थानेष्वनन्तरमेव वक्ष्यमाणखरूपेषु प्रकृतमनुष्य सङ्ख्या वर्तत इति भावः, अथवा द्वौ वर्गावनन्तरमेव वक्ष्यमाणस्वरूपौ ४ ॥ २०६ ॥ यमलपदमिति सामयिक्येव परिभाषा, ततस्त्रयाणां यमलपदानां समाहारस्त्रियमलपदं वर्गषलक्षणं तस्योपरि अनुयो० मलधा रीया For P&Praise City ~423~ वृत्तिः उपक्रमे प्रमाणद्वारं
SR No.035039
Book TitleSavruttik Aagam Sootraani 1 Part 39 Anuyogdwar Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages560
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_anuyogdwar
File Size129 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy