________________
आगम
(४५)
[भाग-३९] "अनुयोगद्वार"-चूलिकासूत्र-२ (मूलं+वृत्ति:)
................. मूलं [१४५] / गाथा ||११४...|| ......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित...आगमसूत्र-[४५], चूलिकासूत्र-२] अनुयोगद्वार मूलं एवं हेमचन्द्रसूरि-रचिता वृत्ति:
अनुयो. मलधा
-456
रीया
प्रत सूत्रांक [१४५]
॥२०१॥
दीप अनुक्रम [२९९]
AACANK
न्येषां न सम्भवन्ति, चतुर्दशपूर्वधरसम्भवित्वात्तद्वन्धस्य, मुक्तानि तु मुक्तौदारिकवद्वाच्यानि, मनुष्यभवे कृतोज्झिताहारकशरीराणां प्रतिपतितचतुर्दशपूर्वविदां नारकेषूत्पत्तिसम्भवादौदारिकोक्तन्यायेनानन्तानां तेषां उपक्रम सम्भव इति भावः, तैजसकार्मणानि तु वद्धानि मुक्तानि च यथैषामेव वैक्रियाणि तथा वक्तव्यानि । उक्तानि प्रमाणद्वार पञ्चापि शरीराणि नारकेपु,अथासुरकुमारेषु तानि वक्तुमाह-'असुरकुमाराणं भंते।' इत्यादि, औदारिकाण्य-1 त्रापि नारकवद्वाच्यानि, वैक्रियाण्यपि तथैव, नवरमसुरकुमाराणां नारकेभ्यः स्तोकस्वात् प्रस्तुतशरीराण्यपि |स्तोकान्यतो विष्कम्भसूच्या विशेषः, सा चेयं-'तासि णं सेढीणं विक्खंभसई'त्यादि, तासाम्-अनन्तरोक्तश्रेणीनां विष्कम्भसचिः-विस्तरश्रेणिरङ्गलप्रथमवर्गमूलस्यासख्येयभागः, इदमुक्तं भवति-पतरस्याङ्गुलप्रमाणे क्षेत्रे यावन्त्यः श्रेणयो भवन्ति तासां यत्प्रथमवर्गमूलं तस्याप्यसङ्ख्येयभागे याः श्रेणयो भवन्ति तत्प्रमाणैव विस्तरसूचिरिह ग्राह्या, सा च नारकोक्तसूचेरसङ्ख्याततमे भागे सिद्धा भवति, ततो नारकाणा-IC मसुरकुमारा असङ्ख्येयभागे वर्तन्त इति प्रतिपादितं भवति, इत्थमेव चैतत्, यतः प्रज्ञापनामहादण्डके केवलरत्नप्रभानारकाणामपि समस्ता अपि भवनपतयोऽसङ्ख्याततमभागवर्तित्वेनोक्ताः किं पुनः समस्तनार-13 काणां केवला(अ)सुरकुमारा इति, आहारकाणि नारकवदेव, तैजसकार्मणान्यत्रैवोक्तवैक्रियवदिति । एवं | समानैव वक्तव्यता यावत्स्तनितकुमाराः। - पुढविकाइयाणं भंते ! केवइया ओरालिअसरीरा पं०१, गो०! दुविहा पण्णत्ता, तं
।
२०१॥
~413~