________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.................... मूलं [-]/गाथा ||३|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत सूत्रांक ||३||
36--1640
दीप अनुक्रम
वासनाऽपरपर्यायः संस्कार आधीयते, स च यावदवतिष्ठते तावत्ताशार्थदर्शनादाभोगतो वा स्मृतिरुदयते, संस्का
राभावे तु न, ततोऽन्वयिज्ञानाभ्युपगमे परमार्थतोऽनुसन्धातुरेकस्याभ्युपगमात्कार्यकारणभावावगमो निखिलजगवा दुःखितापरिभावनं शास्त्रपौर्वापर्यालोचनेन मोक्षोपायसमीचीनताविवेचनमित्यादि सर्वमुपपद्यते, तन्न नैरात्म्यादि-11
भावना रागादिक्लेशप्रहाणिहेतुः, तस्था मिथ्यारूपत्वात् । यदपि च उक्तम्-आत्मनि परमार्थतया विद्यमाने तत्र स्नेहः प्रतत्र्तत इति तत्राचीनावस्थायामेतदिष्यत एव, अन्यथा मोक्षायापि प्रवृत्त्यनुपपत्तेः, तथाहि-यत एवात्मनि | स्नेहः तत एव प्रेक्षावतामात्मनो दुःखपरिजिहीर्षया सुखमुपादातुं यत्रः, तत्र संसारे सर्वत्रापि दुःखमेव केवलं, तथाहिनरकगतौ कुन्ताग्रभेदकरपत्रशिरःपादनशूलारोपकुम्भिपाकासिपत्रवनकृतकर्णनासिकादिच्छेदं कदम्बवालुकापथगमनादिरूपमनेकप्रकारं दुःखमेव निरन्तरं, नाक्षिनिमीलनमात्रमपि तत्र सुखं, तिर्यग्गतावपि अशकशाभिघातप्राजनकतोदनवधवन्धरोगक्षुत्पिपासादिप्रभवमनेक दुःखं, मनुष्यगतावपि परप्रेषगुप्तिगृहप्रवेशधनबन्धुवियोगानिष्टसम्प्र| योगरोगादिजनितं विविधमनेकं दुःखं, देवगतावपि च परगतविशिष्टद्युतिविभवदर्शनात् मात्सर्यमात्मनि तद्विहीने | विषादः च्युतिसमये चातिरमणीयविमानवनवापीस्तूपदेवाङ्गनावियोगजमनिष्टजन्मसन्तापं वाऽयेक्षमाणस्य तप्तायो
भाजननिक्षिप्तशफरादष्यधिकतरं दुःखं, यदपि च-मनुष्यगती देवगतौ वा किमप्यापातरमणीयं कियत्कालभाविक |विषयोपभोगसुखं तदपि विषसम्मिश्रभोजनसुखमिव पर्यन्तदारुणत्वादतीव विदुषामनुपादेयम्, तन्न संसृतौ कापि
054--0-500-
A
R
adioramara
2
~88~