________________
आगम
(४४)
प्रत
सूत्रांक
[४४]
दीप
अनुक्रम
[१३७]
[भाग-३८] “नन्दी”- चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [ ४४]/गाथा ||८१...|| .....
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४ ] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
पराधः प्रमादस्य ॥ ४ ॥ आज्ञाप्यते यदवशस्तुल्योदरपाणिपादवदनेन । कर्म च करोति बहुविधमेतदपि फलं प्रमादस्य ||५|| इह हि प्रमत्तमनसः सोन्मादमदनिभृतेन्द्रियाश्चपलाः । यत्कृत्यं तदकृत्वा सततमकार्येष्वभिपतन्ति ॥ ६ ॥ | तेषामभिपतितानामुद्धान्तानां प्रमत्तहृदयानाम् । वर्द्धन्त एव दोषा वनतरव इवाम्बुसेकेन ॥७॥ दृष्ट्वाऽप्यालोकं नैव विश्र म्भितव्यं, तीरं नीतापि भ्राम्यति वायुना नौः । लब्ध्वा वैराग्यं भ्रष्टयोगः प्रमादाद्भूयो भूयः संसृतौ वस्त्रमीति ॥ ८ ॥ | एवं प्रतिपक्षद्वारेणाप्रमादस्यापि खरूपादयो वाच्याः, 'नन्दी' त्यादि सुगमं, 'सूरियपन्नत्ति' त्ति सूर्यचर्याप्रज्ञपनं यस्यां ग्रन्थपद्धती सा सूर्यप्रज्ञप्तिः, तथा 'पौरुषीमण्डल' मिति पुरुषः- शङ्कुः पुरुषशरीरं वा तस्मान्निष्पन्ना पौरुषी 'तंत आगत' इत्यण, आह च चूर्णिकृत् - 'पुरिसोति संकू पुरिससरीरं वा, तत्र पुरिसाओ निप्फन्ना पोरिसी' इति, इयमत्र भावनासर्वस्यापि वस्तुनो यदा स्वप्रमाणच्छाया जायते तदा पौरुषी भवति, एतच पौरूषीप्रमाणमुत्तरायणस्वान्ते दक्षिणायनस्यादी चैकं दिनं भवति, ततः परमकुलस्याष्टावै कषष्टिभागा दक्षिणायने वर्द्धन्ते उत्तरायणे च हसन्ति, एवं मण्डले २ अन्याऽन्या पौरुपी यत्राध्ययने व्यावर्ण्यते तदध्ययनं पौरुषीमण्डलं, तथा यत्राध्ययने चन्द्रस्य सूर्यस्य च दक्षिणेषु उत्तरेषु च मण्डलेषु सञ्चरतो यथा मण्डलात् मण्डले प्रवेशो भवति तथा व्यावर्ण्यते तदध्ययनं मण्डलप्रवेशः, तथा 'विद्याचरणविनिश्चय' इति, विद्येति-ज्ञानं तच्च सम्यग्दर्शनसहितमवगन्तव्यं, अन्यथा ज्ञानत्वायोगात्, चरणं चारित्रमेतेषां फलविनिश्चयप्रतिपादको ग्रन्थो विद्याचरणविनिश्चयः, तथा 'गणिविज्ञे ति सबालवृद्धो गच्छो
For Parts Only
~420~
उत्कालिकाधि०
१०
१३