SearchBrowseAboutContactDonate
Page Preview
Page 36
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) .................... मूलं [-]/गाथा ||१|| ........... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सूत्रांक ||१|| दीप दोपरार्थसम्पदमाह। तथा 'जगन्नाथ' इह जगच्छब्देनसकलचराचरपरिग्रहः, नाथशब्देन च योगक्षेमकृदभिधीयते, योगक्षे मकृत् नाथ' इति विद्वत्प्रवादात् , ततश्च जगतः-सकलचराचररूपस्य यथावस्थितखरूपप्ररूपणद्वारेण वितथप्ररूपणा पायेभ्यः पालनाच नाथ इव नाथो जगन्नाथः, अनेनापि परार्थसम्पदमाह। तथा 'जगद्वन्धुः इह जगच्छब्देन सकलपाहणिगणपरिग्रहः, प्राणिन एवाधिकृत्य बन्धुत्वोपपत्तेः, ततश्च जगतः-सकलप्राणिसमुदायरूपस्याव्यापादनोपदेशप्रणयनेन है सुखस्थापकत्वाद्वन्धुरिव बन्धुर्जगद्वन्धुः, सकलजगदव्यापादनोपदेशप्रणयनं च भगवतः सुप्रतीतम् , तथा चाचारसूत्र "सव्ये पाणा सव्वे भूया सब्बे जीवा सब्वे सचा न हंतवा न अज्जावेयवा न परिघेतवा न उवद्दवेयबा, एस धम्मे सुद्धे धुवे नीए सासए समेञ्च लोयं खेयन्नेहिं पबेइए" इत्यादि, एतेन संसारमोचकानां व्यापायोपकृतये दुःखितसत्त्वव्यापादनमुपदिशतामकुशलमार्गप्रवृत्तत्वमायेदितं द्रष्टव्यं, यतस्ते एवमाहुः-यत्परिणामसुन्दरं तदापातकटुकमपि परेषामाधेयं, यथा रोगोपशमनमौषधं, परिणामसुन्दरं च दुःखितसत्वानां व्यापादनमिति, तथाहि-कृमिकीटपतङ्गमशकलावकचटककुष्टिकमहादरिद्रान्धपङ्ग्वादयो दुःखितजन्तवः पापकर्मोदयवशात्संसारसागरमभिप्लवन्ते, ततस्तेऽवश्यं तत्पापक्षपणाय परोपकारकरणैकरसिकमानसेन व्यापादनीयाः, तेषां हि व्यापादने महादुःखमतीवो १ सर्व प्राणाः सर्वं भूताः सर्वे जीवाः सर्वे सत्ता न हन्दच्या नाकापयितव्या न परिग्रहीतल्या नोपदोतव्याः, एष धर्मः शुदो भुमो नीतियुक्तः (नियः मैखिका)। शाश्वतः समेत्य छोकं खेद प्रवेदितः अनुक्रम करु For P OW ~36~
SR No.035038
Book TitleSavruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages528
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy