SearchBrowseAboutContactDonate
Page Preview
Page 31
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक |||| दीप अनुक्रम [3] [भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:) मूलं [-]/गाथा ||१|| पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः श्रीमलयगिरीया नन्दीवृत्ति : ।। १० ।। शाब्द १५ उत नेति ?, तत्र यदि यथावदाप्त इति निश्चितं ततो विषय सत्यत्वमितरथा त्वसत्यत्वम्, आसेतरविवेकोऽपि परि| शीलनेन लिङ्गतो वा कुतश्चिदवसेयो, निपुणेन हि प्रतिपत्रा भवितव्यं, यदप्युक्तं 'यदपि च विनष्टमनुत्पन्नं वा तदपि प्रामाण्यं. न स्वरूपेण समस्तीत्यादि' तत्रापि यदि विनष्टानुत्पन्नयोर्वा र्तमानिकविद्यमानरूपाभिधायकः शब्दः प्रवर्त्तते तर्हि स निरर्थकोऽभ्युपगम्यत एव ततो न तेन व्यभिचारः, यदा तु ते अपि विनष्टानुत्पन्ने विनष्टानुत्पन्नतयाऽभिधचे शब्दः तदा तद्विषयसर्वज्ञज्ञानमिव सद्भूतार्थविषयत्वात्स प्रमाणम्, इत्थं चैतदङ्गीकर्त्तव्यम्, अन्यथाऽतीतकल्पान्तरवर्त्तिपार्श्वादिसर्वज्ञदेशना भविष्यच्छङ्खचक्रवर्त्त्यादिदेशना च सर्वथा नोपपद्येत, तद्विषयज्ञाने शब्दप्रवृत्त्यभावात, अथोच्येत-अनलेऽनलशब्दः तदभिधानखभावतया यमभिधेयपरिणाममाश्रित्य प्रवर्त्तते स जले नास्ति, जलानलयोरभेदप्रसङ्गाद्, अथ च प्रवर्त्तते सङ्केतवशाजलेऽप्यनलशब्दः तत्कथं शब्दार्थयोर्वास्तवः सम्बन्धः १, तदसत् शब्दस्यानेकशक्तिसमन्वि तत्वेनोक्तदोषानुपपत्तेः तथाहि - नानलशब्दस्यानलवस्तुगताभिधेयपरिणामापेक्षी तदभिधानविषय एवैकः स्वभावः, अपि तु समयाधानतत्स्मरणपूर्वकतया विलम्वितादिप्रतीतिनिबन्धनत्वेन जलवस्तुगताभिधेय परिणामापेक्षी तदभिधानस्वभावोऽपि तथा तस्यापि प्रतीतेः, अन्यथा निर्हेतुकत्वेन तत्प्रतीत्यभावप्रसङ्गात् ननु कथमेते शब्दा वस्तुविषयाः प्रतिज्ञायन्ते ?, चक्षुरादीन्द्रियसमुत्थयुद्धाविव शाब्दे ज्ञाने वस्तुनोऽप्रतिभासनात्, यदेव चक्षुरादीन्द्रियबुद्धौ प्रतिभासते व्यक्त्यन्तराननुयायि प्रतिनियत देशकालं तदेव वस्तु, तस्यैवार्थक्रियासमर्थत्वात्, नेतरत्परपरिकल्पितं Janauraton Intention For Parts Only ~31~ २० ॥ १० ॥ २५
SR No.035038
Book TitleSavruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages528
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy