SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक |||| दीप अनुक्रम [3] [भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:) मूलं [-]/गाथा ||१|| पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः श्रीमलयगिरीया नन्दीवृत्तिः || 2 || वन्न भवति न तत्प्रमाणं, यथा गगनेन्दीवरज्ञानं, न भवति च विषयवत् शाब्दं ज्ञानमिति न चायमसिद्धो हेतुः, यतो द्विविधो विषय:- प्रत्यक्षः परोक्षत्र, तत्र न प्रत्यक्षः शाब्दज्ञानस्य विषयो, यस्य हि ज्ञानस्य प्रतिभासेन स्फुटाभनीलाद्याकाररूपेण योऽर्थोऽनुकृतान्वयव्यतिरेकः स तस्य प्रत्यक्षः, तस्य च प्रत्यक्षस्यार्थस्यायमेव प्रतिपत्तिप्रकारः सम्भवदशामश्रुते, नापरः, तद्विषयं च तदन्वयव्यतिरेकानुविधायि स्फुटप्रतिभासं ज्ञानं प्रत्यक्षं, प्रत्यक्षज्ञेयत्वात्, तद् न प्रत्यक्षोऽर्थोऽनेकप्रकारप्रतिपत्तिविषयो यः शाब्दप्रमाणस्यापि विषयो भवेत्, नापि परोक्षः, तस्यापि हि निश्चिततदन्वयव्यतिरेकनान्तरीयकदर्शनात् प्रतिपत्तिः यथा धूमदर्शनाद्वहेः, अन्यथाऽतिप्रसङ्गात् न च शब्दस्यार्थेन सह निश्चितान्वयव्यतिरेकता, प्रतिबन्धाभावात् तादात्म्यतदुत्पत्त्यनुपपत्तेः तथाहि न बायोऽर्थो रूपं शब्दानां नापि शब्दो रूपमर्थानां, तथाप्रतीतेरभावात्, तत्कथमेषां तादात्म्यं ? येन व्यावृत्तिकृतव्यवस्था भेदेऽपि नान्तरीयकता स्यात्, कृतकत्वानित्यत्ववद् अपि च-यदि तादात्म्यमेषां भवेत् ततोऽनलाचलक्षुरिकादिशब्दोचारणे वदनदहनपूरणपाटनादिदोषः प्रसज्येत, न चैवमस्ति तद् न तादात्म्यं नापि तदुत्पत्तिः, तत्रापि विकल्पद्वयप्रसक्तेः तथाहि त्रस्तुनः किं शब्दस्योत्पत्तिरुत शब्दाद्वस्तुनः १, तंत्र वस्तुनः शब्दोत्पत्तावकृत सङ्केतस्थापि पुंसः प्रथमपनसदर्शने तच्छन्दोचारणप्रसङ्गः, शब्दाद्वस्तुत्पत्तौ विश्वस्यादरिद्रताप्रसक्तिः, तत एव कटककुण्डलाद्युत्पत्तेः, तदेवं प्रतिबन्धाभावात् न शब्दस्यार्थेन ] सह नान्तरीयकतानिश्चयः, तदभावाच न शब्दादू निश्चितस्यार्थस्य प्रतिपत्तिः, अपि त्वनिवर्त्तितशङ्कतयाऽस्ति न वेति Education Internation For Para Use Only ~27~ शाब्द प्रामाण्य. १५ २० 114 11 २६ org
SR No.035038
Book TitleSavruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages528
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy