________________
आगम
(४४)
[भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:)
.............. मूलं [-1/गाथा ||१|| ...... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति:
प्रत
ACANC000
सूत्रांक ||१||
द्रूपा उपलभ्यन्ते ततः कथं तेभ्यो मनोज्ञानं भवतीति प्रतीमः ?, आह च-"चेतयन्तो न दृश्यन्ते, केशश्मश्रुनखादयः । ततस्तेभ्यो मनोज्ञानं, भवतीत्यतिसाहसम् ॥१॥" अपि च-यदि केशनखादिप्रतिबद्धं मनोज्ञानं ततः तदुच्छेदे मूलत एव न स्यात्, तदुपधाते चोपहतं भवेत्, न च भवति, तस्मात् नायमपि पक्षः क्षोदक्षमः, किश्च-मनोज्ञानस्य सूक्ष्मार्थभे(वे)त्तृत्वस्मृतिपाटवादयो विशेषा अन्वयव्यतिरेकाभ्यामभ्यासपूर्वका दृष्टाः, तथाहि-तदेव शास्त्रमूहापोहादि-IN प्रकारेण यदि पुनः पुनः परिभाव्यते ततः सूक्ष्मसूक्ष्मतरार्थावबोध उल्लसति स्मृतिपाटवं चापूर्वमुज्जृम्भते, एवं चैकत्र शास्त्रेऽभ्यासतः सूक्ष्मार्थभे(वे)त्तृत्वशक्ती स्मृतिपाटवशक्ती चोपजातायामन्येष्वपि शास्त्रान्तरेष्वनायासेनैव सूक्ष्मार्थावबोधः स्मृतिपाटवं चोलसति, तदेवमभ्यासहेतुकाः सूक्ष्मार्थभे(वे)त्तृत्वादयो मनोज्ञानस्य विशेषा दृष्टाः, अथ कस्यचिदिहजन्माभ्यासव्यतिरेकेणापि दृश्यन्ते ततोऽवश्यं ते पारलौकिकाभ्यासहेतुका इति प्रतिपत्तव्यम्, कारणेन
सह कार्यस्यान्यथाऽनुपपन्नत्वप्रतिबन्धतोऽदृष्टतत्कारणस्यापि तत्कार्यत्वविनिश्चितेः, ततः सिद्धः परलोकयायी जीवः, ६ सिद्धे च तस्मिन् परलोकयायिनि यदि कथश्चिदुपकारी चाक्षुषादेर्विज्ञानस्य देहो भवेत् भवतु न कश्चिद् दोषः, क्षदियोपशमहेतुतया देहस्यापि कथञ्चिदुपकारित्वाभ्युपगमात्, न चैतावता तन्निवृत्ती सर्वथा तन्निवृत्तिः, न हि वढेरासा
दितविशेषो घटो वह्निनिवृत्तौ समूलोच्छेदं निवर्त्तते, केवलं विशेष एवं कश्चनापि, यथा सुवर्णस्य द्रवत्ता, एवमिहापि देहनिवृत्ती ज्ञानविशेष एच कोऽपि तत्प्रतिबद्धो निवर्ततां, न पुनः समूलं ज्ञानमपि, यदि पुनर्देहमात्रनिमित्तकमेव
दीप
अनुक्रम
~22~