SearchBrowseAboutContactDonate
Page Preview
Page 218
Loading...
Download File
Download File
Page Text
________________ आगम (४४) [भाग-३८] “नन्दी”- चूलिकासूत्र-१ (मूलं+वृत्ति:) ................ मूलं [१७]/गाथा ||५७...|| .......... पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्ति: प्रत सत्राक [१७] दीप अनुक्रम माणपद्मवरवेदिकावनखण्डसमवगूढाः समदन्तलष्टदन्तगूढदन्तशुद्धदन्तनामानश्चत्वारो द्वीपाः। एवमेते हिमवति पर्वते ।। द्वीपा चतसृषु विदिक्षु व्यवस्थिताः सर्वसङ्ख्यया अष्टाविंशतिसझ्या द्वीपाः । एवं हिमवत्तुल्यवर्णप्रमाणे पद्मादप्रमाणायाहामविष्कम्भावगाहपुण्डरीकहदोपशोभिते शिखरिण्यपि पर्वते लवणार्णवजलसंस्पर्शादारभ्य चतसृषु विदिक्षु व्यवस्थिताः भएकोरुकादिनामानोऽथूणापान्तरालायामविष्कम्भा अष्टाविंशतिसङ्ख्या द्वीपा वक्तव्याः । ततः सर्वसङ्ग्यया षट्पञ्चाश दन्तरद्वीपाः । एतेषु च वर्तमाना मनुष्या अपि एवंनामानो भवन्ति, भवति च निवासयोगतः तथाव्यपदेशो यथा पञ्चालजनपदनिवासिनः पुरुषाः पञ्चाला इति,तेऽपि चान्तरद्वीपवासिनो मनुष्या वर्षभनाराचसंहननिनः समचतुरस्रसंस्थानसंस्थिताः समग्रशुभलक्षणतिलकमपपरिकलिता देवलोकानुकारिरूपलावण्यालङ्कारशोभितविग्रहा अष्टधनु शतप्रमाणशरीरोच्छायाः, स्त्रीणां विदमेव किञ्चिन्न्यूनं द्रष्टव्यं, तथा पल्योपमासङ्ख्येयभागप्रमाणायुषः स्त्रीपुरुषयुगलव्यवस्थिताः दशविधकल्पपादपसम्पाद्योपभोगसम्पदः प्रकृत्यैव शुभचेतसो विनीताः प्रतनुक्रोधमानमायालोभाः सन्तोपिणो निरौत्सुक्याः कामचारिणोऽनुलोमवायुवेगाः सत्यपि मनोहारिणि मणिकनकमौक्तिकादिके ममत्वकारिणि ममत्वाभिनिवेशरहिताः सर्वथापगतवैरानुबन्धाः परस्परप्रेष्यादिभावविनिर्मुक्ता अत एवाहमिन्द्रा हस्त्यश्वकरभगोम|हिल्यादीनां सद्भावेऽपि तत्परिभोगपरामुखाः पादविहारचारिणो रोगवेदनादिविकला वर्तन्ते, चतुर्थोहारमेते गृह्णन्ति चतुःषष्टिश्च पृष्टकरण्डकास्तेषां, षण्मासावशेषायुषश्वामी स्त्रीपुरुषयुगलं प्रसुवते एकोनाशीतिदिनानि च तत् [८१] R4 १३ SARELIdtmmamatural PRIRaitaram.org ~218~
SR No.035038
Book TitleSavruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages528
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy