SearchBrowseAboutContactDonate
Page Preview
Page 20
Loading...
Download File
Download File
Page Text
________________ आगम (४४) प्रत सूत्रांक ||||| दीप अनुक्रम [3] [भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:) मूलं [-]/गाथा ||१|| पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४४] चूलिकासूत्र[१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः दहिनां दृष्टः, किं न जन्मान्तरागतिः १ ॥ १ ॥ अथागतिः प्रत्यक्षतो नोपलभ्यते ततः कथमनुमानादवसीयते ?, नैष दोषः, अनुमेयविषये प्रत्यक्षवृत्तेरनभ्युपगमात् परस्परविषयपरिहारेण हि प्रत्यक्षानुमानयोः प्रवर्त्तनमिष्यते ततः कथं स एव दोषः १, आह च - "अनुमेयेऽस्ति नाध्यक्षमिति कैवात्र दुष्टता ? । अध्यक्षस्यानुमानस्य, विषयो विषयो न हि ॥ १ ॥ अथ तज्जातीयेऽपि प्रत्यक्षवृत्तिमन्तरेण कथमनुमानमुदयितुमुत्सहते ?, न खलु यस्याग्निविषया प्रत्यक्षवृत्तिर्महानसेऽपि नासीत् तस्यान्यत्र क्षितिघरादौ धूमाद्भूमध्वजानुमानं तदप्ययुक्तम्, अत्रापि तज्जातीये प्रत्यक्षतिभावात्, तथाहि - आग्रहोऽन्यत्र परिशीलनाभ्यासात् प्रवृत्तः प्रत्यक्षत एवोपलब्धः, तदुपष्टम्भेनेहाप्यनुमानं प्रवर्त्तते, उक्तं च- "आग्रहस्तावदभ्यासातू, प्रवृत्त उपलभ्यते । अन्यत्राध्यक्षतः साक्षात्ततो देहेऽनुमा न किम् ? ॥ १ ॥ " योऽपि चित्रदृष्टान्तः प्रागुपन्यस्तः सोऽप्ययुक्तो, वैषम्यात्, तथाहि - चित्रमचेतनं गमनस्वभावरहितं च, आत्मा च चेतनः कर्म्मवशाद् ब्यागती च कुरुते, ततः कथं दृष्टान्तदार्शन्तिकयोः साम्यम् १, ततो यथा कश्चिद्र देवदत्तो विवक्षिते ग्रामे कतिपयदिनानि गृहीभूत्वा ग्रामान्तरे गृहान्तरमास्थायावतिष्ठते तद्वद् आत्माऽपि विवक्षिते भवे देहं परिहाय भवान्तरे देहान्तरमारचय्यावतिष्ठते, यच्चोक्तं- 'संवेदनं देहकार्य' मिति, तत्र चाक्षुपादिकं संवेदनं देहाश्रितमपि कथञ्चिद् भवतु, चक्षुरादीन्द्रियद्वारेण तस्योत्पत्तिसम्भवात्, यत्तु मानसं तत्कथम् ? न हि तद्देहकार्य घटते, युक्त्ययो - गात, तथाहि - तन्मानसं ज्ञानं देहादुत्पद्यमानमिन्द्रियरूपाद्वा समुत्पद्यते अनिन्द्रियरूपाद्वा केशनखादिलक्षणात् ?, For Prasnalai On ~20~
SR No.035038
Book TitleSavruttik Aagam Sootraani 1 Part 38 Nandisootra Mool evam Vrutti
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages528
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_nandisutra
File Size118 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy