________________
आगम
(४४)
प्रत
सूत्रांक
[२]
दीप
अनुक्रम [५४]
[भाग-३८] “नन्दी” - चूलिकासूत्र - १ (मूलं + वृत्ति:)
मूलं [२]/गाथा ||४७...||
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४४ ] चूलिकासूत्र [१] नन्दीसूत्र मूलं एवं मलयगिरिसूरिरचिता वृत्तिः
श्रीमलयगिरीया नन्दीवृत्तिः
॥ ७३ ॥
Jan Eucat
प्रति करणतया व्यवधायकत्वायोगात्, न खलु देवदत्तो हस्तेन भुञ्जानो हस्तव्यापारव्यवहितत्वात् साक्षान्न भोक्तेति व्यपदेष्टुं शक्यम्, तदेतद्समीचीनं, सम्यग्वस्तुतत्त्वापरिज्ञानात्, इह हि यदाऽऽत्मा चक्षुरादिकमपेक्ष्य बाह्यमर्थमवबुध्यते तदाऽवश्यं चक्षुरादेः सागुण्याद्यपेक्षते, तथाहि यदा सगुणं चक्षुः तदा वाह्यमर्थे स्पष्टं यथावस्थितं चोपलभते, यदा तु तिमिराशुभ्रमणनौयानपित्तादिसंक्षोभ देशदबीयस्ताद्यापादितविभ्रमं तदा विपरीतं संशयितं वा, ततोऽवश्यमात्मा अर्थोपलब्धी पराधीनः, तथा च सति यथा राजा निजराजदौवारिकेणोपदर्शितं परराष्ट्र राजकीयं पुरुषं पश्यन्नपि समीचीनमसमीचीनं वा निजराजदौवारिकवचनत एव प्रत्येति न साक्षात्, तद्वदात्मापि चक्षुरादिनोपदर्शितं बाह्यमर्थ चक्षुरादिप्रत्ययत एवं समीचीनमसमीचीनं या वेत्ति, न साक्षात्, तथाहि चक्षुरादिना दर्शितेऽपि बाह्येऽर्थे यदि संशयमधिरूढो भवति तर्हि चक्षुरादिसागुण्यमेव प्रतीत्य निश्चयं विदधाति, यथा न मे चक्षुस्तिमिरोपलुतं, न नौयानाशुभ्रमणाव्यापादितविभ्रमं ततोऽयमर्थः समीचीन इति, ततो यथा राज्ञो नायं मम राजदौवारिकोऽसत्यालापी कदाचनाप्यस्य व्यभिचारानुपलम्भादिति निजदौवारिकस्य सागुण्यमवगम्य परराष्ट्र राजकीयपुरुषसमीचीनतावधारणं परमार्थतः परोक्षं तद्वदात्मनोऽपि चक्षुरादिसागुण्यावधारणतो वस्तुयाथात्म्यावधारणं परमार्थतः परोक्षं, नन्विदमिन्द्रियसागुण्यावधारतो वस्तुयाथात्म्यावधारणमनभ्यासदशामापन्नस्योपलभ्यते नाभ्यासदशामुपागतस्य, अभ्यासदशामापन्नो सभ्यासप्रकर्षसामर्थ्यादिन्द्रियसागुण्यमनपेक्ष्यैव साक्षादवबुध्यते, ततस्तस्येन्द्रियाश्रितं ज्ञानं कथं प्रत्यक्षं न भवति ?, तदयु
For Parts Only
~ 157~
इन्द्रिय
सागुण्या
ज्ज्ञानम्.
१५
२०
॥ ७३ ॥
२६
jonary.org