________________
आगम (४३)
[भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [२४], मूलं [-] / गाथा ||४-८|| नियुक्ति: [४५९...]
प्रत
सूत्रांक
||४-८||
यते, इयं भावमङ्गीकृत्य यतना। उपयुक्तत्वमेव स्पष्टयितुमाह-'इन्द्रियार्थान्' शब्दादीन् 'विवर्य' तदनध्यवसानतः परिहत्य, खाध्यायं चैव 'च' समुच्चये एवकारोऽपिशब्दार्थः, ततोऽयमर्थः-न केवलमिन्द्रियार्थान् विवज्य | किन्तु खाध्यायं चापि 'पञ्चधेति वाचनादिभेदतः पञ्चप्रकार, गत्युपयोगोपघातित्वात्, ततश्च तस्यामेवेर्यायां मूर्तिः-शरीरमाद्वयाप्रियमाणा यस्यासी तन्मूर्तिः, तथा तामेव पुरस्करोति-तत्रैवोपयुक्ततया प्राधान्येनाशीकुरुत इति तत्पुरस्कारः, अनेन कायमनसोस्तत्परतोक्का, बचसो हि तत्र व्यापार एव न समस्ति, एवमुपयुक्तः सन्नीयो रीयेत यतिरिति शेषः, सर्वत्र च संयमात्मविराधनैव विपक्षे दोष इति सूत्रपञ्चकार्थः । सम्प्रति भाषासमितिमाह
कोहे माणे य माया य, लोभे य जवउत्तया । हासे भय मोहरिए, विगहासु तहेव य॥९॥ एयाई अह ठाणाई, परिवज्जित्तु संजओ। असावलं मियं काले, भासं भासिज्ज पन्नवं ॥१०॥
क्रोधेमाने च मायायां लोभे च 'उपयुक्तता' क्रोधाधुपयोगपरता तदेका यतनेतियावत् , हासे 'भय'त्ति भये मौखदिये विकथासु तथैवोपयुक्ततेति सम्बन्धः, तत्र क्रोधे यथा कश्चिदतिकुपितः पिता प्राह-न त्वं मम पुत्रः,पाश्चैवर्तिनो।
वा प्रति प्राह-बन्नीत बनीतैनमित्यादि, माने यथा कश्चिदभिमानाध्मातचेता न कश्चिन्मम जात्यादिभिस्तुल्य इति वक्ति, मायायां यथा परव्यंसनार्थमपरिचितस्थानवत्ती सुतादौ भणति-नायं मम पुत्रो न चाहमस्य पितेत्यादि,लोभे यथा कश्चिद्वणिक् परकीयमपि भाण्डादिकमात्मीयमभिधत्ते, हास्ये यथा केलीकिलतया कञ्चन तथाविधं कुलीनम
दीप अनुक्रम [९३९
-९४३]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~66~