________________
आगम
(४३)
प्रत
सूत्रांक
[२६६]
दीप
अनुक्रम
[१७३१]
उत्तराध्य.
बृहद्वृत्तिः
॥७१२॥
[भाग-३७] “उत्तराध्ययनानि” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा || २६६ || निर्युक्ति: [५५७-५५८],
अध्ययनं [ ३६ ],
| रस्येति भवसिद्धिकः स चासौ संवृतश्वाश्रवनिरोधेन भवसिद्धिकसंवृतः ज्ञातविशेषणमेतत्, अथवा 'पाउकरे' ति 'प्रादुरकार्षीत्' प्रकाशितवान् शेषं पूर्ववत् नवरं 'परिनिर्वृतः क्रोधादिदहनोपशमतः समन्तात्स्वस्थीभूतः, एतेन “सत्यानृतत्व संदेहैः, सर्वमेव वचस्त्रिधा " इति प्रसिद्धेस्त्रैविध्यसम्भवेऽपि वचनरूपत्वेनोत्तराध्ययनानां वक्तृदोषहेतुकत्वादनृतत्व सन्देह योक्तृदोषाभावख्यापनेनैकान्तसत्यत्वलक्षणं माहात्म्यमाहेति सूत्रार्थः ॥ नियुक्तिकारोऽप्येत
न्माहात्म्यख्यापनायाह-
जे किर भवसिद्धीया परित्तसंसारिआ य भविआ य । ते किर पढंति धीरा, छत्तीसं उत्तरज्झयणे ॥ जे हुंति अभवसिद्धीया गंधिअसत्ता अनंतसंसारा । ते संकिलिट्टकम्मा अभविय उत्तरज्झाए ॥ ५५८ ॥
'ये' इत्यनिर्दिष्टनिर्देशे 'किल' इति सम्भावने 'भवसिद्धिकाः ' भव्याः परीतः प्राग्वत् परिमितः स चासौ संसारथ तद्वन्तः परीत्तसंसारिकाः 'जत इनिठना 'विति ( पा० ५-२-११५) मत्वर्थीयष्ठन् कोऽर्थः १ - तथाभव्यत्याक्षिप्तप्रत्यासन्नीभूतमुक्तयः 'भव्याः' सम्यग्दर्शनादिगुणयोग्या भिन्नग्रन्थय इति योऽर्थः उभयत्र 'चः' समुच्चये इति, व्यवच्छेदफलत्वाद्वा वाक्यस्य त एव, 'किल' इति परोक्षाप्तसूचकः, 'पठन्ति' अधीयते धीराः प्राग्वत्, कानि ? इत्याह- 'छत्तीसं 'ति पत्रिंशद् 'उत्तराध्ययनानि' विनयश्रुतादीनि भवसिद्धिकादीनामेतत्पाठफलस्य सम्यग्ज्ञानादेः
For Party
जीवाजीव
विभक्ति०
३६
~458~
॥७१२॥
www.janbay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः