________________
आगम (४३)
[भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्तिः ) अध्ययनं [३६], मूलं [-] / गाथा ||२४९-२५३|| नियुक्ति: [५५६...], भाष्यं [१५...]
प्रत
सूत्रांक
[२४९-२५३]
बारसेत्यादि सूत्रपञ्चकम् । द्वादशैव न तु न्यूनान्यधिकानि वा 'तुः' पूरणे 'वाणि' संवत्सरान् संलेखन-द्रव्यतः शरीरस्य भावतः कपायाणां कृशताऽऽपादनं संलेखा, संलेखनेति योऽर्थः, 'उक्कोसिय'त्ति उत्कृष्टा सर्वगुर्वी भयेत्, 'संवच्छर'ति संवत्सरं-वर्ष मध्यमैव मध्यमिका, षण्मासान् 'चः' पुनरर्थे भिन्नक्रमस्ततो जघन्यैव जपन्थिका पुनः पठन्ति च-'उकोसिया' इत्यत्र 'उकोसतो'त्ति, अन्यत्र तु 'मज्झिमउत्ति जद्दण्णतो'त्ति । इत्थं संलेखनायाखैविध्ये उत्कृष्टायाः क्रमयोगमाह-'प्रथम' आये 'वर्षचतुष्के' संवत्सरचतुष्टये वर्त्तनं वृत्तिनिर्वहणमित्यर्थः प्रस्तावात्क्षी-४ रादिविकृतिस्तस्या निर्ग्रहणम्-आचामाम्लस्य निर्विकृतिकस्य वा तपसः करणेन परित्यागो वृत्तिनिर्ग्रहणमनु (णं तत्) कुर्यात् , पठ्यते च–'विगईनिज्जूहणं करे ति स्पष्टम् , इदं च विचित्रतपसः पारणके, यदाह निशीथचूर्णिकृत्-'अन्ने। ४ चत्वारि बरिसे विचित्तं तवं काउं आयंबिलेण पारेइ निविएण वा पारेइ"त्ति, केवलमनेन नियुक्तिकृता च द्वितीये।
वर्षचतुष्टये एतदुक्तम् , अत्र च सूत्रे प्रथम दृश्यत इत्युभयथापि करणे दोषाभावमनुमिमीमहे, तयोरस्य च प्रमाणभूतत्वात् , द्वितीय वर्षचतुष्के 'विचित्रं तु' इति विचित्रमेव चतुर्थषष्ठाटमादिरूपं तपश्चरेत् , अत्र च पारण के सम्प्र
दाय:--"उग्गम विसुद्धं सर्व कप्पणिज पारेति"त्ति । एकेन-चतुर्थलक्षणेन तपसाऽन्तर–व्यवधानं यस्मिंस्तदेकाद्वन्तरम् 'आयामम्' आचाम्लं 'कट्टत्ति कृत्वा संवत्सरी द्वौ, 'ततः' तदनन्तरं 'संवत्ससई मासपई 'तुः' पूरणे 'न'
१ अन्यानि चत्वारि वर्षाणि विचित्रं तपः कृत्वाऽऽचाम्लेन निर्विकृतिकेन वा पारयति २ उद्गमविशुद्ध सर्व कल्पनीयं पारयति
दीप अनुक्रम [१७१४-१७१८]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~445