________________
आगम
(४३)
प्रत
सूत्रांक
[१५५
१६८]
दीप
अनुक्रम [१६२०
-१६३३]
[भाग-३७] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||१५५ - १६८ ||
अध्ययनं [ ३६ ],
निर्युक्ति: [ ५५६...], भाष्यं [ १५...]
कायठिई, जहनुकोसिया भवे ॥ १६६ ॥ अनंतकालमुकोर्स, अंतोमुद्दत्तं जहन्नयं । विजमि सए काए, नेरइयाणं तु अंतरं ॥ १६७ ॥ एएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वावि, विहाणाई सहस्ससो ॥ १६८ ॥
नेरइएत्यादि चतुर्दश सूत्राणि । नैरयिकाः 'सप्तविधाः ' सप्तप्रकाराः, किमिति ?, यतः पृथ्वीषु सप्तसु 'भवे'त्ति भवेयुः, ततस्तद्भेदात्तेषां सप्तविधत्यमिति भावः, काः पुनस्ताः सप्त ? इत्याह- 'रयणाभ'त्ति रत्नानां - वैडूर्यादीनामामानमाभास्वरूपतः प्रतिभासनमस्यामिति रत्नाभा, इत्थं चैतत्, तत्र रत्नकाण्डस्य भवनपतिभवनानां च विविधरत्नवतां सम्भवात् एवं सर्वत्र, नवरं शर्करा - शुक्ष्णवापाणशकलरूपा तदाभा, 'धूमाभेति यद्यपि तत्र धूमासम्भवस्तथाऽपि तदाकारपरिणतानां पुद्गलाना सम्भवात्, तमोरूपत्वाच्च तमः, प्रकृष्टतरतमस्त्वाच्च तमस्तमः, 'इति' इत्यमुना पृथिवीसप्तविधत्वलक्षणेन प्रकारेण नैरयिका एते सप्तधा प्रकीर्त्तिताः । 'लोगस्से'त्यादिसूत्रद्वयं क्षेत्रकालाभिधायि प्राग्वत् । सादिसपर्यवसितत्वं द्विविधस्थित्यभिधानद्वारतो भावयितुमाह-सागरोपममेकं तुत्कृष्टेन व्याख्याता 'प्रथमायां' प्रक्रमान्नरकपृथिव्यां जघन्येन दश वर्षसहस्राणि यस्यां सा दशवर्षसहस्रिका प्रस्तावादायुः स्थितिर्नैरयिकाणामितीहोत्तरसूत्रेषु च द्रष्टव्यम् । त्रीण्येव 'सागरे'ति सागरोपमाणि 'तुः' पूरणे उत्कृष्टेन व्याख्याता द्वितीयायां, 'जहण्णेणं'ति उत्तरत्र तुशब्दस्य पुनः शब्दार्थस्य भिन्नक्रमत्येनेह सम्बन्धाजघन्येन पुनरेकं सागरोपमम्
Education intimational
For at Use Only
cryp
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~ 427 ~