________________
आगम (४३)
प्रत सूत्रांक
[ ६५ ]
दीप
अनुक्रम
[१५२९]
[भाग-३७] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [३६], मूलं [--] / गाथा ||६५|| निर्युक्ति: [ ५५६...], भाष्यं [१५...]
त्वाद्विशेषणस्य परनिपातः ज्ञानदर्शने उक्तरूपे ते एव सज्ञा- सम्यग्बोधरूपा सञ्जातैषामिति तारकादेराकृतिगणत्वादितचि ज्ञानदर्शनसञ्ज्ञिताः - ज्ञानदर्शनोपयोगवन्तो न विद्यते तुठेव तुला- इयत्ता परिच्छेदहेतुरस्येति अतुलम्, अपरिमितत्वात् उक्तं हि "सिद्धस्स सुहों रासी सङ्घद्वापिंडितो जर हवेजा । सोऽणंतवग्भइतो सबागासे न माइजा ॥ १ ॥” इति, सुखं शर्म समित्येकीभावेन दुःखलेश कलङ्कितत्वलक्षणेन प्राप्ताः, सुखमेव पुनर्विशिनष्टि - उपमा यस्य 'नास्ति तु' न विद्यत एव यदुक्तम्- "लोके तत्सदृशो वर्थः कृत्स्नेऽप्यन्यो न विद्यते। उपमीयेत तद्येन, तस्मान्निरुपमं स्मृतम् ॥ १ ॥" न च विषयाभावतस्तत्र सुखशब्दाभिधेयाभाव एवेत्याशङ्कनीयं चतुरर्थत्वात्तस्य, उक्तं हि लोके चतुविहार्थेषु, सुखशब्दः प्रयुज्यते । विषये वेदनाऽभावे, विपाके मोक्ष एव च ॥ १ ॥ सुखो वह्निः सुखो वायुर्विषयेष्विह कथ्यते । दुःखाभावे च पुरुषः, सुखितोऽस्मीति मन्यते ॥ २॥ पुण्यकर्मविपाकाच, सुखमिष्टेन्द्रियार्थजम् । कर्मक्लेशविमोक्षाच, मोक्षे सुखमनुत्तमम् ॥ ३ ॥” ततक्ष मोक्षस्यैव तत्र सुखशब्दाभिधेयत्वादसम्भव एवाशङ्कायाः, इह च जीवधना इत्यनेन सौगताभिमतमभावरूपत्वं मुक्तेः उत्तरविशेषणद्वयेन च 'सुखदुःखबुद्धीच्छाद्वेषप्रयत्नधर्माधर्मसंस्कारा नवात्मगुणास्तेषामत्यन्तोच्छित्तिर्निःश्रेयस' मिति वचनादचेतनत्वामुखित्वे च सिद्धस्य नैयायिकाद्यभिमते निराकुरुते, अभावरूपत्ये हि मुक्तेरर्थक्रियासामर्थ्य लक्षणत्वाद्वस्तुनोऽन्त्यक्षणस्य क्षणान्तराजनना१ सिद्धस्य सुखराशिः सर्वाद्धापिण्डितो यदि भवेत्। सोऽनन्तवर्गभक्तः सर्वाकाशे न मायात् ॥ १ ॥
Education Inational
For
www.janbay.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~407~