SearchBrowseAboutContactDonate
Page Preview
Page 401
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [५५ -५६] दीप अनुक्रम [१५१९ -१५२०] [भाग-३७] “उत्तराध्ययनानि” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा ||५५२-५६ || निर्युक्ति : [ ५५६...], भाष्यं [१५...] अध्ययनं [३६], | पूर्व भावप्रज्ञापनीयनयापेक्षयाऽनेकधा सिद्धानभिधाय सम्प्रति प्रत्युत्पन्नभावप्रज्ञापनीयनयापेक्षया तेषामेव प्रतिघा तादिप्रतिपादनायाह कहिं पहिया सिद्धा ?, कहिं सिद्धा पट्टिया ? । कहिं बुदिं चहत्ता णं, कत्थ गंतॄण सिज्झई १ ॥ ५५ ।। अलोए पहिया सिद्धा, लोयग्गे य पट्टिया । इहं बुंदि चइता णं, तत्थ गंतॄण सिज्झई ।। ५६ ।। 'के' ति कस्मिन् 'प्रतिहताः' स्खलिताः, कोऽर्थः १- निरुद्धगतयः, सिद्धाः, तथा 'क' कस्मिन् सिद्धाः 'प्रतिष्ठिताः' साद्य पर्यवसितं कालं स्थिताः, अन्यथ- क ' बुन्दि' शरीरं त्यक्त्वा कुत्र गत्वा 'सिज्झइ'ति वचनव्यत्ययात् 'सिज्यन्ति' निष्ठितार्था भवन्ति । एतत्प्रतिवचनमाह-'अठोके' केवलाकाशलक्षणे 'प्रतिहताः' स्खलितास्तत्र धर्मास्तिकायस्थाभावेन तेषां गतेरसम्भवात् उक्तं च- "ततोऽप्यूर्द्ध गतिस्तेषां कस्मान्नास्तीति चेन्मतिः । धर्मास्तिकायस्याभावात्, स हि हेतुर्गतेः परः ॥ १ ॥" तथा 'ठोका च' लोकस्योपरि विभागे 'प्रतिष्ठिताः' सदाऽवस्थिताः, आह ऊ गमनाभावेऽप्यधस्तिर्यग्वा गमनसम्भवेन कथं तेषां तत्र प्रतिस्थानम् ?, उच्यते, क्षीणकर्मत्वा तेषां कर्माधीनत्वाबाधस्तिर्यग्गमनयोः, तदुक्तम् - " अधस्तिर्यगथोर्द्ध च, जीवानां कर्मजा गतिः । ऊर्द्धमेव तु ताद्धर्म्याद् भवति क्षीणकर्मणाम् ॥ १ ॥" 'इहे' त्यनन्तरप्ररूपिते तिर्यगुलोकादी 'बुन्दि' शरीरं त्यक्त्वा 'तत्र' इति लोकाग्रे गत्वा 'सिज्झ| ति'त्ति सिध्यति, गत्वेति च मुखं व्यादाय स्वपितीत्यादिवत्क्त्वाप्रत्ययः, पूर्वापरकालविभागस्येहासम्भवात्, यत्रैव हि Education intimational Forsy Jaincibrary org पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित..आगमसूत्र [ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः मूल-संपादने मुद्रण- अशुद्धित्वात् अत्र गाथाक्रम || ५५ || द्वीवारान् मुद्रितं ~ 401 ~
SR No.035037
Book TitleSavruttik Aagam Sootraani 1 Part 37 Uttaradhyayan Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size96 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy