________________
आगम
(४३)
प्रत
सूत्रांक
[८-९]
दीप
अनुक्रम
[१४७२
-१४७३]
उत्तराध्य.
बृहदुतिः
॥६७३ ॥
[भाग-३७] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [३६], मूलं [--] / गाथा ||८-९||
निर्युक्ति: [ ५५६...], भाष्यं [१५...]
arraferari च धर्माधर्माकाशानि त्रीण्यप्येतानि न विद्यते आदिरेषामित्यनादिकानि इत्यतः कालात्प्रभृत्यमूनि प्रवृत्तानीत्यसम्भवात्, न पर्यवसितान्यपर्यवसितान्यनन्तानीतियावत्, न हि कुतश्चित्कालात्परत एतानि न भविष्यन्तीति सम्भवः, चैवौ प्राग्वत्, तथा च 'सर्वाद्धा' सर्वकालं कालात्यन्तसंयोगे द्वितीया, 'तुः' अवधारणेऽतः सर्वदा खखरूपापरित्यागतो नित्यानीतियाबद् 'व्याख्यातानि ' कथितानि, सर्वत्र लिङ्गव्यत्ययः प्राग्वत्, समयोऽपि 'सन्ततिम्' अपरापरोत्पत्तिरूपप्रवाहात्मिकां प्राप्य' आश्रित्य 'एवमेव' अनाद्यपर्यवसितत्वलक्षणेनैव प्रकारेण 'व्याख्यातः' प्ररूपितः, पठन्ति च- 'एमेव संतई पप्प समएवित्ति स्पष्टम्, 'आदेश' विशेषं प्रतिनियतव्यक्तत्यात्मकं 'प्राप्य' अङ्गीकृत्य सादिकः सपर्यवसितः, 'अपिः' समुचये 'चः' पुनरर्थे भिन्नक्रमश्च देशं पुनः प्राप्येति योज्यः, विशेषापेक्षया ह्यभूत्वाऽयं भवति भूत्वा च न भवतीति सादिनिधन उच्यत इति सूत्रद्वयार्थः । इत्थमजीवानामरूपिणां द्रव्यक्षेत्रकालेः प्ररूपणा कृता, सम्प्रति भावप्ररूपणावसरः, तत्र चामूर्त्तत्वेन नामीपां ['प्रन्थाग्रम्' १७००० ] पर्याया रूपिपर्याया इव वर्णादयः प्ररूप्यमाणा अपि संवित्तिमानेतुं शक्याः अनुमानतस्त्वितरथाऽपि द्रव्यस्य पर्यायविकलस्यासम्भवाद्गम्यन्त एवेति तत्प्ररूपणामनादृत्य द्रव्यतो रूपिणः प्ररूपयितुमाह
संधाय खंदेसा य, तप्पएसा तहेव य । परमाणुणो अ बोद्धव्वा, रूविणो अचडव्विहा ॥ १० ॥ स्कन्दन्ति-शुप्यन्ति धीयन्ते च - पोष्यन्ते च पुद्गलानां विचटनेन चटनेन चेति स्कन्धाः 'चः' समुचये स्कन्धानां
uttarattond
For Fans Only
जीवाजीव
विभक्ति०
३६
~ 380~
॥६७३ ॥
www.ncbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः