________________
आगम (४३)
[भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३६], मूलं [--] / गाथा ||७|| नियुक्ति: [५५६...], भाष्यं [१५...]
R-54
प्रत
'धर्माधौं' धर्मास्तिकायाधर्मास्तिकायो 'चः' पूरणे द्वावप्येतो 'लोकमात्रौ' लोकपरिमाणी व्याख्याती, ननु । धर्माधर्मावित्युक्ते द्वाविति गतार्थमेव द्वित्वसङ्ख्याया द्विवचनेनैवाभिधानात् , सत्यं, किन्तु गतार्थानामपि रश्यते है एव लोके प्रयोगः, तथा चाह जिनेन्द्रबुद्धि:-"यदि गतार्थानामप्रयोग एव स्यात् पचति देवदत्त इत्यत्र पचतीत्येतद्
ततिडेबैकत्वस्योक्तत्वादू देवदत्त इति सुप एकवचनस्याप्राप्तिरेव स्यादिति, लोकमानत्वं चानयोरेतदवष्टब्धाकाशस्लेव | लोकत्वात् , अलोकव्यापित्वे त्वनयो जीवपुद्गलयोरपि तत्र प्रचारप्रसङ्गेन तस्यापि लोकवावाः, उक्तं च-"धर्मा&धर्मविभुत्वात्सर्वत्र जीवपुद्गलविचारात् । नो लोकः कश्चित्स्यान्न च संमतमेतदार्याणाम् ॥ १॥" तथा चैती लोक
एव नालोक इत्यर्थादुक्कं भवति, तथा 'लोगालोगे य आगासे'त्ति लोकेऽलोके चाऽऽकाशं, सर्वगतत्वात्तस्य, 'समयः' इत्यद्धासमयः समयोपलक्षितं क्षेत्रं समयक्षेत्रम्-अर्द्धतृतीयद्वीपसमुद्रास्त द्विषयभूतमस्थास्तीति समयक्षेत्रिकः, तत्पर
तस्तस्थासम्भवात्, समयमूलत्वादावलिकादिकल्पनायाः तेऽप्येतावत्क्षेत्रवर्त्तिन एव, तथा चोक्तम्-"समयावभलिकापक्षमासत्वंयनसम्जित्ताः । नृलोक एव कालस्य, वृत्तिर्नान्यत्र कुत्रचित् ॥१॥” इति सूत्रार्थः ॥ एतानेन । कालत आह
धम्माधम्मागासा, तिनिवि एए अणाइया । अपज्जवसिया चेब, सम्बद्धं तु वियाहिया ॥८॥ समएवि संतई पप्प, एवमेव वियाहिए । आएसं पप्प साईए, सपज्जवसिएवि य ॥९॥
दीप
अनुक्रम [१४७१]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~379