SearchBrowseAboutContactDonate
Page Preview
Page 360
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक [8] दीप अनुक्रम [१४४४] उत्तराध्य. बृहद्वृत्तिः ॥६६३|| [भाग-३७] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [३५], मूलं [-] / गाथा || १ || निर्युक्तिः [५४६-५४८] दृष्टिः सम्यग्दर्शनवान्निश्चयतो यत्सम्यक्त्वं तन्मौनमिति चरित्री अगारवासेनागारपाशेन वा प्राकृतत्वा तृतीयार्थे पञ्चमी विशेषेण तत्प्रतिषन्धपरित्यागरूपेण निर्मुक्तः- त्यक्तो विनिर्मुक्तोऽनगार इति प्रक्रमः, तथा मार्गगत्योर्द्वयोरपि, पूर्व - मोक्षमार्गगतिनामन्यध्ययने उद्दिष्टः कथितः पूर्वोद्दिष्टः, इत्थमेषां चतुर्विधत्वेन के नेह प्रकृतमित्याह-अधिकारः 'भावमग्गि'प्ति सुव्यत्ययाद् 'भावमार्गेण सम्यग्दर्शनज्ञानचारित्रलक्षणेन सिद्धिगत्या चार्थाद्भावगत्या उपलक्षणत्वाद्भावानगारेण च ज्ञातव्य इति गाथाश्रयावयवार्थः । गतो नामनिष्पन्नो निक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुचारणीयं, तचेदम् सुणेह मे एगमणा, मग्गं सन्वन्नु (बुद्धेहिं) देखियं । जमायरंतो भिक्खू, दुक्खाणंतकरो भवे ॥ १ ॥ 'शृणुत' आकर्णयत 'मे' मम कथयत इति शेषः, एकाग्रमनसः कोऽर्थः १- अनन्यगतचित्ताः सन्तः शिष्या इति शेषः, किं तत् ? इत्याह- 'मार्गम्' उक्तरूपं प्रक्रमान्मुक्तेर्बुधैः - अवगतयथास्थितवस्तुतत्त्वैरुत्पन्न केवलैरर्हद्भिः श्रुतकेव| लिभिर्गणधरादिभिर्वेत्युक्तं भवति, देशितं प्रतिपादितमर्थतः सूत्रतश्च तमेव विशेषयितुमाह-'यम्' इति मार्गम् 'आचरन्' आसेवमानः 'भिक्षुः अनगारः 'दुःखानां' शारीरमानसानामन्तः - पर्यन्तस्तत्करणशीलोऽन्तकरः 'भवेत्' स्यात्, सकलकर्मनिर्मूलनत इति भावः, तदनेनासेव्यासेवकसम्बन्धेनानगारसम्बन्धित्वं मार्गस्य तत्फलं च मुक्तिगतिरिति दर्शितं, ततश्वानगारमार्गे तद्वतिं च शृणुतेत्य (त) उक्तं भवतीति सूत्रार्थः ॥ यथाप्रतिज्ञातमेवाह Education intimational For अनगारग तिमार्गा ध्य. ३५ ~360~ ॥६६३॥ पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
SR No.035037
Book TitleSavruttik Aagam Sootraani 1 Part 37 Uttaradhyayan Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size96 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy