________________
आगम (४३)
[भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३४], मूलं [-] / गाथा ||१०-१५|| नियुक्ति : [५४५...]
प्रत
सूत्रांक
१०
|ऽतिशयकषाय इत्याशयः। यथा परिणतं-परिपक्कं यदानकं तद्रसः पक्ककपित्थस्य वाऽपि याशको रसोऽतोऽप्यनन्तगुणो रसस्तु तेऊए'त्ति तेजोलेश्याया ज्ञातव्यः आम्लः किश्चिन्मधुरश्चेत्यैदम्पर्य । वरवारुणी-प्रधानमुरा तस्या वा रसो यारशक इति योगः 'विविधानां वा' नानाप्रकाराणाम् 'आसवानां' पुष्पप्रसवमद्यानां वा यादृशको रस इति सम्बन्धः, 'महुमेरयस्स व रसो'त्ति मधु-मद्यविशेषो मैरेयं-सरकस्तयोः समाहारे मधुमैरेयं तस्य वा रसोयाइशकोऽतो वरवारुण्यादिरसात्पद्मायाः प्रक्रमाद्रसः 'परकेणं'ति अनन्तानन्तगुणत्वात्तदतिक्रमेण वर्तत इति गम्यते, अयं च किश्चिदम्लकषायो माधुर्यवांश्चेति भावनीयं, पाठान्तरतोऽप्यनन्तगुणो रसस्तु पद्माया ज्ञातव्यः । खजूरं च-पिण्डखजूरादि मृबीका च-द्राक्षा एतद्रसः तथा 'क्षीररसः' प्रतीतः खण्डं च-इक्षुविकारः शर्करा च-काशादिप्रभवा तद्रसो वा यादश इति शेषः, अतोऽप्यनन्तगुणो रसस्तु शुक्लाया ज्ञातव्योऽत्यन्तमधुर इति गर्म इति सूत्रषट्कार्थः ॥ उक्तो रसः, सम्प्रति गन्धमाहजह गोमडस्स गंधो सुणगमस्स व जहा अहिमडस्स । इत्तो वि अणंतगुणो लेसाणं अप्पसस्थाणं ॥१६॥ जह सुरहिकुसुमगंधो गंधवासाण पिस्समाणाणं । इत्तोचि अणंतगुणो पसत्थलेसाण तिण्हं पि ॥१७॥
यथा गवां मृतक-मृतकशरीरं तस्य गन्धः श्वमृतकस वा तथा यथाऽहिः-सर्पस्तन्मृतकस्य गन्ध इति सम्बन्धः, सूत्रत्वान्मृतकशब्दे कलोपः 'अतोऽपि' एतत्प्रकारादपि गन्धादनन्तगुणोऽतिदुर्गन्धतया लेश्यानाम् 'अप्रशस्तानाम्'
दीप अनुक्रम [१३९२-१३९७]
JAMERatinintimational
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~341