SearchBrowseAboutContactDonate
Page Preview
Page 337
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३४], मूलं [-] / गाथा ||१|| नियुक्ति : [५४५...] प्रत लेसज्झयणं पवक्खामि, आणुपुचि जहक्कम । छहंपि कम्मलेसाणं, अणुभाचे मुणेहि मे ॥१॥ लेश्याभिधायकमध्ययनं लेश्याऽध्ययनं तत् 'प्रवक्ष्यामि' प्रकर्षण-तासामेव नामवर्णादिनिरूपणात्मकेनाभिधास्ये, आनुपूर्व्या यथाक्रममिति च प्राग्वत् , तत्र च 'षण्णामपि' षट्सङ्खयानामपि वक्ष्यमाणभेदेन 'कर्मलेश्याना' कर्मस्थितिविधातृतत्तद्विशिष्टपुद्गलरूपाणाम् 'अनुभावान्' रसविशेषान् शृणुत मम कथयत इति शेष इति सूत्रार्थः । एतदनुभावाश्च नामादिप्ररूपणातः कथिता एव भवन्तीति तत्प्ररूपणाय विनेयाभिमुखीकरणकारि द्वारसूत्रमाहनामाई वण्णरसगंधफासपरिणामलक्खणं ठाणं । ठिई गई च आउं, लेसाणं तु सुणेह मे ॥२॥ दारगाहा॥ 'नामानि' अभिधानानि वर्णश्च-कृष्णादी रसश्च-तिक्तादिर्गन्धश्च-सुरभ्यादिः स्पर्शश्च-कर्कशादिः परिणामश्चजघन्यादिः लक्षणं च-पञ्चाश्रवासेवनादि, एषां समाहारे वर्णगन्धरसस्पर्शपरिणामलक्षणं तत् , 'स्थानम्' उत्कर्षापकपरूपं स्थितिम्' अवस्थानकालं गतिं च नरकादिकां यतो याऽवाप्यते 'आयुः जीवितं च यावति च तत्रावशिष्यमाणे आगामिभवलेश्यापरिणामस्तदिह गृह्यते, लेश्यानां 'तुः' पूरणे 'सुणेह में ति प्राग्यदिति सूत्रार्थः । अत्र च यथोद्देशं निर्देश' इति न्यायतो नामान्याह किण्हा नीला य काऊ य, तेऊ पम्हा तहेच य । सुक्का लेसा य छट्ठा उ, नामाई तु जहक्कम ॥ ३ ॥ किण्हासूत्रं स्पष्टमेव ॥ प्रत्येकमासां वर्णानाह दीप अनुक्रम [१३८३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~337
SR No.035037
Book TitleSavruttik Aagam Sootraani 1 Part 37 Uttaradhyayan Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size96 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy