________________
आगम (४३)
[भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३४], मूलं [-1 / गाथा ||२५...|| नियुक्ति: [५३४-५४४]
उत्तराध्य.
लेश्याध्य
CRESS
बृहद्वृत्तिः
प्रत
॥५०॥
सत्राक
[२५]
लेश्यामाह-या कर्मद्रव्यलेश्याऽग्रेतनतुशब्दसम्बन्धात्सा पुनः 'नियमात्' अवश्यम्भावात् पडिधा 'ज्ञातव्या' अव- बोद्धव्या, कथमित्याह-कृष्णा नीला 'काउ'चि कापोता 'तेउत्ति तैजसी पझा च शुक्ला चेति, इह च कर्मद्रव्यलेश्येति सामान्याभिधानेऽपि शरीरनामकर्मद्रव्याण्येव कर्मद्रव्यलेश्या, यदुक्तं प्रज्ञापनावृत्तिकृता-"योगपरिणामो लेश्या, कथं पुनर्योगपरिणामो लेश्या ?, यस्मात्सयोगिकेवली शुक्ललेश्यापरिणामेन विहत्यान्तर्महः शेषे योगनिरोध करोति, ततोऽयोगित्वमलेश्यत्वं च प्राप्नोति, अतोऽवगम्यते-योगपरिणामो लेश्येति, स पुनर्योगः शरीरनामकर्मपरिआणतिविशेषः, यस्मादुक्तं-“कर्म हि कार्मणस्य कार्यमन्येषां च शरीराणा"मिति, तस्मादौदारिकादिशरीरयुक्तस्यात्मनो वीर्यपरिणतिविशेषः काययोगः, तथौदारिकवैक्रियाहारकशरीरव्यापाराहृतवारद्रव्यसमूहसाचिव्याजीवव्यापारो यः स वाग्योगः, तथैयौदारिकादिशरीरव्यापाराहृतमनोद्रव्यसमूहसाचिव्याज्जीवव्यापारो यः स मनोयोग इति, ततो यथैव कायादिकरणयुक्तस्यात्मनो वीर्यपरिणतियोग उच्यते तथैव लेश्याऽपी"ति गुरवस्तु व्याचक्षते-कर्मनिस्यन्दो लेश्या, यतः कर्मस्थितिहेतवो लेश्याः, यथोक्तम्-"ताः कृष्णनीलकापोततेजसीपद्मशुक्लनामानः । श्लेष इव वर्णवन्धस्य कर्मबन्धस्थितिविधात्र्यः ॥१॥” इति, योगपरिणामत्वे तु लेश्यानां "योगा पयडिपएसं ठिइअणुभाग कसायओ कुणति"त्ति वचनात्प्रकृतिप्रदेशवन्धहेतुत्वमेव स्यात् न तु कर्मस्थितिहेतुत्वं, कर्मनिस्यन्दरूपत्वे तु | यावत्कषायोदयस्तावत्तन्निस्यन्दस्वापि सद्भावात्कर्मस्थितिहेतुत्वमपि युज्यत एव, अत एयोपशान्तक्षीणमोहयोः
REC%252
दीप
अनुक्रम [१३८२]
६५०॥
wwwjanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~3344