________________
आगम
(४३)
प्रत
सूत्रांक
[२५]
दीप
अनुक्रम
[१३८२]
[भाग-३७] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा ||२५...|| निर्युक्ति: [५३४-५४४]
अध्ययनं [३४],
| स्वन्धाद् भविष्यतीति भवा- भाविनीत्यर्थः तारशी सिद्धिर्येषां ते भवसिद्धिका - भव्यास्तेषाम् ' अभवसिद्धिकानां तद्विपरीतानां द्विविधानामप्युक्तभेदेन प्रक्रमाजीवानां भवति 'सप्तविधा' सतप्रकारा इहापि लेश्येति प्रक्रमः, अत्र च जयसिंहसूरिः कृष्णादयः पट् सप्तमी संयोगजा इयं च शरीरच्छायात्मका परिगृह्यते, अन्ये त्वौदारिकौदारिकमि| श्रमित्यादिभेदतः सप्तविधत्वेन जीवशरीरस्य तच्छायामेव कृष्णादिवर्णरूपां नोकर्मणि सप्तविधां जीवद्रव्यलेश्यां मन्यन्ते, तथा 'अजीवकम्मणो दबलेस'त्ति अजीवानां 'कम्मणो'त्ति आर्षत्वान्नो कर्मणि द्रव्यलेश्या अजीवनोकर्मद्रव्यलेश्या, तुशब्दस्येह सम्बन्धात्सा पुनर्दशविधा ज्ञातव्या, चन्द्राणां सूर्याणां च ग्रहा - मङ्गलादयस्तद्गुणश्च नक्षत्राणि च-कृत्तिकादीनि ताराश्च प्रकीर्णज्योतींषि ग्रहगणनक्षत्रतारास्तेषाम्, आभरणानि च - एकावलिप्रभृतीनि आच्छादनानि च सुवर्णचरितादीनि आदर्शा एवादर्शका-दर्पणास्त्रे चाभरणाच्छादनादर्शकास्तेषां तथा मणिश्च-मरकता| दिः काकिणिः - चक्रवर्तिरत्तं मणिकाकिण्यौ तयोर्या लेशयति-श्लेषयतीवात्मनि जननयनानीति लेश्या-अतीव चक्षुराक्षेपिका स्निग्धदीसरूपा छाया अजीवद्रव्यलेश्या प्रक्रमान्नोकर्मणि ज्ञातव्या दशविधैषा, अत्र च चन्द्रादिशब्दैस्तद्विमानानि 'तास्थ्यात्तव्यपदेश' इति न्यायेनोच्यन्ते, तेषां च पृथ्वीकायरूपत्वेऽपि खकायपरकाशस्त्रोपनिपातसम्भवात् तत्प्रदेशानां केषाञ्चिदचेतनत्वेनाजीवद्रव्यलेश्यात्वं द्रष्टव्यम् उपलक्षणं चात्र दशविधत्वमेवंविधद्रव्याणां रजतरूप्यताम्रादीनां बहुतरत्वेन तच्छायाया अपि बहुतरभेदसम्भवात् इत्थं नोकर्मद्रव्यलेश्यामभिधाय कर्मद्रव्य
Jus Education intimatio
For Party
www.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~333~