SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [३३], मूलं [-1 / गाथा ||४-१५|| नियुक्ति: [५३२...] प्रत सूत्रांक [४-१५] क्षुर्दर्शनावरणादिचतुर्विधत्वात्मकेन प्रकारेण 'तुः' पूरण नव विकल्पा-भेदा यस्य तत्तथाविधं ज्ञातव्यं दर्शनावरणम् ।। 'वेदनीय' वेदनीयकर्म 'अपि च' इति पूरणे 'द्विविध' विभेदं खाद्यते-आल्हादकत्वेनाखाद्यत इति नैरुक्तविधिना M'सातं' सुखं शारीरं मानसं च इहोपचारात्तनिवन्धनं कर्मैवमुक्तम् , 'असातं च' तद्विपरीतम् 'आख्यातं' कथितं । तीर्थकृद्भिरिति गम्यते, 'सायस्स उत्ति 'तुः' अपिशब्दार्थः ततः सातस्यापि बहयो भेदाः, न केवलं ज्ञानदर्शनासावरणयोरित्यपिशब्दार्थः, ते च तद्धेतुभूतभूतानुकम्पादिबहुभेदत्वाद, एवमेवेति बहय एव भेदा असातस्यापि दुःख शोकतापादितद्धेतुबहुविधत्वादेवेति गर्भार्थः । मोहनीयमपि द्विविध, न केवलं घेदनीयं, विषयतश्चैतविधेति वैवि-है। माध्यमाह-दर्शने' तत्त्वरुचिरूपे 'चरणे' चारित्रे तथा, किमुक्तं भवति ?-दर्शनमोहनीयं चारित्रमोहनीयं च, तत्र || || 'दर्शने' दर्शनविषयं प्रक्रमान्मोहनीयं त्रिविधमुक्तं भवति, 'चरणे' चरणविषयं मोहनीयं द्विविधं भवेत् । यथा दर्श-| | नमोहनीयत्रैविध्यं तथाऽऽह-सम्यग्भावः सम्यक्त्वं-शुद्धदलिकरूपं यदुदयेऽपि तत्त्वरुचिः स्यात् 'चैयेति पूरणे मिथ्याभावः मिथ्यात्वम्-अशुद्धदलिकरूपं यतस्तत्त्वेऽतत्त्वमतत्त्वेऽपि तत्त्वमिति बुद्धिरुत्पद्यते, सम्यग्मिथ्यात्वमेव च-शुद्धाशुद्धदलिकरूपं यत उभयखभावता जन्तोर्भवति, इह च सम्यक्त्वादयो जीवधर्मास्तद्धेतुत्वाच दलिकेष्वेतद्यपदेशः, एतास्तिस्रः प्रकृतयो मोहनीयस्य 'दर्शने' दर्शनविषयस्य ६ । चरित्रे मुबतेऽनेनेति मोहनं चरित्र-|| मोहनं कर्म यतः श्रद्दधानोऽपि यदि कथञ्चनाहमेनं प्रतिपद्य इति जानन्नपि तत्फलादि न तत्प्रतिपद्यते, उत्तरत्र दीप अनुक्रम [१३६१-१३७२] wwwjanatarary.om पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~319~
SR No.035037
Book TitleSavruttik Aagam Sootraani 1 Part 37 Uttaradhyayan Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size96 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy