________________
आगम (४३)
[भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [३१], मूलं [-1 / गाथा ||१|| नियुक्ति: [५१८]
प्रत
प्रक्रमाद्रव्यमेव सुव्यत्ययेन गत्यादयो वा भावचरणकार्याकरणत्वेन तद्यतिरिक्तद्रव्यचरणं, तथा 'आचरणे' प्रस्तावाजाज्ज्ञानाद्याचारे 'आचरणम्' अनुष्ठान सिद्धान्ताभिहितं 'भावे' विचार्ये चरणं 'तुः' विशेषणे ज्ञातव्यमिति ॥ तथा ||'इंदियत्थेसु'न्ति इन्द्रियाणि-स्पर्शनादीनि तेषामर्थाः-स्पर्शादयस्तेषु प्रक्रमाद् यः 'विधिः' अनुष्ठानमासेवनमितियावत्, अस्यापि द्रव्यत्वं भावविधिफलासाधकत्वेन द्रव्यप्राधान्यविवक्षया वा, भावविधिः पुनः 'द्विविधः' द्विप्रकारः, द्वैविध्यमाह-संयमयोगः संयमव्यापारः 'तपश्चैव' अनशनाद्यनुष्ठानरूपं, चरणासेवनं छत्र भावविधिः, स| |चैवंविध एवेति गाथाचतुष्टयार्थः ॥ सम्प्रति येनेह प्रकृतं तदुपदर्शयन्नुपदेशमाहपगयं तु भावचरणे भावविहीए अहोइ नायवं । चइऊण अचरणविहिं चरणविहीए उ जइयत्वं ॥५१८॥
निगदसिद्धा, नवरं 'भावचरणेन' प्रस्तावाचारित्राचारानुष्ठानेन 'अचरणविधिम्' अनाचारानुष्टानं त्यक्त्वा 'चरणविधौ' उक्तरूपे 'यतितन्य' यतो विधेय इति गाथार्थः ॥ उक्तो नामनिष्पन्ननिक्षेपः, सम्प्रति सूत्रानुगमे सूत्रमुचारणीयं, तच्चेदम्
चहणविहिं पवक्खामि, जीवस्स उ सुहावहं । जे चरित्ता बहू जीवा, तिन्ना संसारसागरं ॥१॥ चरणस्य विधिः आगमोक्तन्यायः चरणविधिस्तं प्रवक्ष्यामि जीवस्य 'तुः' अवधारणे भिन्नक्रमस्ततः 'सुहावह'ति
दीप
अनुक्रम [१२२६]
.
Ajanatarary.om
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३], मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~255