________________
आगम
(४३)
प्रत
सूत्रांक
||३६||
दीप
अनुक्रम
[११११]
उत्तराध्य.
बृहद्वृत्तिः
॥५६९॥
[भाग-३७] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्ति:+वृत्तिः) निर्युक्ति: [५०२...]
अध्ययनं [२८],
मूलं [--] / गाथा ||३६||
खविता पुव्वकम्माई, संजमेण तवेण य । सञ्चदुक्खप्पहीणट्ठा, पक्कमति महेसिणो ॥ ३६ ॥ तिमि ॥ सुखमग्गगईयं ॥ २८ ॥
'क्षपयित्वा' क्षयं नीत्वा 'पूर्वकर्माणि' पूर्वोपचितज्ञानावरणादीनि संयमः - सम्यक् पापेभ्य उपरमणं चारित्र - मित्यर्थस्तेन 'तपसा' उक्तरूपेण चशब्दाज्ज्ञानदर्शनाभ्यां च नन्वेवमनन्तरं तपस एव कर्मक्षपणहेतुत्वमुक्तम् इह तु ज्ञानादीनामपीति कथं न विरोध ?, उच्यते, तपसोऽप्येतत्पूर्वकस्यैव क्षपणहेतुत्वमिति ज्ञापनार्थमित्थमभिधानम्, अत एव मोक्षमार्गत्वमपि चतुर्णामप्युपपन्नं भवति, ततश्च 'सचदुक्खप्पहीण'त्ति प्राकृतत्वात्प्रकर्षेण हीनानि - हानिं गतानि प्रक्षीणानि वा सर्वदुःखानि यस्मिन् यद्वा सर्वदुःखानां प्रहीणं प्रक्षीणं वा यस्मिंस्तत्तथा तच सिद्धिक्षेत्रमेव तदर्थयन्त इवार्थयन्ते सर्वार्थेच्छोपरमेऽपि तद्वामितया ये ते तथाविधाः 'प्रक्रामन्ति' भृशं गच्छन्ति अथवा प्रहीणानि वा सर्वदुःखान्यर्थाश्च प्रयोजनानि येषां ते तथाविधाः प्रक्रामन्ति सिद्धिमिति शेषः, 'महेसिणो'त्ति महर्षयो महैषिणो वा प्राग्वन्महामुनय इति सूत्रार्थः ॥ 'इति' परिसमाप्तौ ब्रवीमीति पूर्ववत्, उक्तोऽनुगमः सम्प्रति नयाः, तेऽपि प्राग्वदेव ॥ इत्युत्तराध्ययनटीकायां शिष्यहितायां श्रीशान्त्याचार्य कृतायां मुक्तिमार्गगतिनामकमष्टाविंशमध्ययनं समाप्तमिति २८ श्री शान्त्याचार्यकृतायामुत्तराध्ययनटी० शिष्य ० मुक्तिमार्गगतिनामकमष्टाविंशमध्ययनं समाप्तम् ॥
Education national
Fürsten
मोक्षमार्ग
गत्य० २८
~ 172 ~
॥५६९॥
www.incibrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः अत्र अध्ययनं २८ परिसमाप्तं