________________
आगम (४३)
[भाग-३७] “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२८], मूलं [-] / गाथा ||३२-३३|| नियुक्ति: [५०२...]
प्रत
सूत्रांक
ACANCIES
||३२-३३||
उपशान्तक्षीणमोहाख्यगुणस्थानध्यवर्तिनः 'जिनस्य वा' केवलिनः सयोग्ययोगिगुणस्थानद्वयस्थायिनः, वा समुच्चये, यथैतत्पञ्चविधमपि चारित्रशब्दवाच्यं तथाऽन्वर्थत आह-'एतद् अनन्तरोक्तं सामायिकादि चयस्य-राशेः प्रस्तावात्कर्मणां रिक्त-विरेकोऽभाव इतियावत् तत्करोतीयेवंशीलं चयरिक्तकर चारित्रमिति नरुक्तो विधिः, आह-यश्यति"चरितेण णिगिण्हाति तवेण य वि(परि)सुज्झति'त्ति' कथं न तेनास विरोधः?, उच्यते, तपसोऽपि तत्त्वतश्चारित्रान्तर्गतत्वात् , भवति 'आख्यातं' कथितमहदादिभिरिति गम्यत इति सूत्रद्वयार्थः ॥ सम्प्रति तपश्चतुर्थं कारणमाह| तवो असुविहो वुत्तो, बाहिरऽभतरो तहा । बाहिरो छब्विहो बुत्तो, एवमभितरो तवो ॥ ३४ ॥
तपश्च द्विविधमुक्त, 'बाहिर'त्ति बाह्यमाभ्यन्तरं, तथा तत्र वाह्यं षड्विधमुक्तमेवमिति-पड्विधमाभ्यन्तरंतप उक्तमिति | | सूत्रार्थः, भावार्थस्तु तपोऽध्ययन एवाभिधास्यते ॥ आह-एषां मुक्तिमार्गत्वे कस्य कतरो व्यापारः, उच्यते
नाणेण जाणई भावे, संमत्तेण य सरहे । चरित्तेण निगिण्हाद, तवेण परिसुजाई ॥३॥ 'ज्ञानेन' मत्यादिना जानाति' अवबुध्यते 'भावान्' जीवादीन् 'दर्शनेन च' उक्तरूपेण 'सद्दहि'त्ति श्रद्धत्ते चारित्रेण-अनन्तराभिहितेन 'निगिण्हाति'त्ति निराश्रवो भवति, पठ्यते च-न गिण्हति'त्ति, तत्र 'न गृह्णाति' नादत्ते। कर्मेति गम्यते 'तपसा परिशुद्धति' पुरोपचितकर्मक्षपणतः शुद्धो भवति, उक्तं हि-"संजमे अणण्हयफले तवे बोदाणफले"त्ति, इति सूत्रार्थः । अनेन मार्गस्य फलं मोक्ष उक्तः, सम्प्रति तत्फलभूतां गतिमाह- .
दीप अनुक्रम [११०७-११०८]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~171