________________
आगम (४३)
[भाग-३७] “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [२८], मूलं [-] / गाथा ||९-१२|| नियुक्ति: [५०२...]
प्रत सूत्रांक ||९-१२||
सोऽप्येवं वक्तव्यः यथा-भवतः कथं बाधासंसिद्धिः, न हि कदाचिदसौ प्रत्यक्षगोचरः, साकारज्ञानवादिनः सदा तदाकारस्यैव संबेदनात् , तथा च तस्याप्यनुपलभ्यमानत्वादभाव एव, अथाकारसंवेदनेऽपि तत्कारणमर्थः परिकरूप्यते, धूमज्ञान इवामिः, एवं सति स्थितिदर्शनेऽपि किं न तत्कारणस्थाधर्मास्तिकायस्य निश्चयः१, अथायमप्यमिदधीत-न कदाचिदसौ तत्कारणत्वेनेक्षित इति, ननु बाह्यार्थेऽपि तुल्यमेतत्, न हि सोऽपि तदाकारकारितया कदाचिदवलोकितः,अथ मनस्कारस्य चिद्रूपतायामेव व्यापारो न तु नियता(त)कारणत्वे,अतस्तत्रार्थः कारणं कल्प्यते, एवं तर्हि जीवपुगलौ परिणाममात्र एव कारणं, स्थितिपरिणती पुनरधर्मास्तिकायोऽपेक्षाकारणत्वेन व्याप्रियत इति किंन कल्प्यते ?, अथासौ सर्वदा सर्वस्य सन्निहित इत्यनियमेन स्थितिकारणं भवेत् , नन्वेवमर्धोऽपि किं सन्निहित इत्येव खाकारमर्पयति !, अथ चक्षुरादिव्यापारमयमपेक्षते, अधर्मास्तिकायोऽपि तर्हि खपरगती विश्रसाप्रयोगावपेक्षत इति नानयोर्विशेषमुत्पश्यामः, तथा 'भाजनम्' आधारः 'सर्वद्रव्याणां' जीवादीनां नमः' आकाशम् , अब
गाहः-अवकाशस्तलक्षणमस्येत्यवगाहलक्षणं तयवगाढुं प्रवृत्तानामालम्बनीभवति, अनेनावगाहकारणत्वमाकाशदस्योक्त, न चास्य तत्कारणत्वमसिद्ध, यतो यद्यदन्वयन्यतिरेकानुविधायि तत्तत्कार्य, यथा चक्षुराद्यन्वयव्यतिरेकानु
विधायि रूपादिविज्ञानम् , आकाशान्वयन्यतिरेकानुविधायी चावगाहः, तथाहि-शुषिररूपमाकाशं, तत्रैव चावगाहो.॥ न तु तद्विपरीते पुद्गलादौ, अथैवमलोकाकाशेऽपि कथं नावगाहः, उच्यते, स्वादेवं यदि कश्चिदवगाहिता भवेत्,
दीप
अनुक्रम [१०८४-१०८७]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~153