SearchBrowseAboutContactDonate
Page Preview
Page 152
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२८], ____मूलं [-1 / गाथा ||९-१२|| नियुक्ति: [५०२...] प्रत सूत्रांक ||९-१२|| उत्तराध्य तत्वेन च सिद्धत्वात्, न च खपुष्पादिषु सङ्केतितैर्दुःखादिशुद्धपदैरनेकान्तो, वृद्धपरम्परायातसतविषयाणामेव मोक्षमार्गबृहद्वृत्तिः शुद्धपदाना वाच्यत्वस्येह हेतुत्वेनेष्टत्वात् , निपुणेन प्रतिपत्रा भाव्यम् , अन्यथा धूमादेरपि गोपालघटादिग्वन्यथा मारवागत्य०२८ भावदर्शनादेष प्रसङ्गो दुर्निवारः स्यात् , उकंच-"अथिति निवियप्पो जीयो नियमा उ सद्दतो सिद्धी। कम्हा? ॥५५९|| सुद्धपयत्ता घडखरसिंगाणुमाणाओ॥१॥" इत्यायलं प्रसङ्गेन, तथा 'अधर्मः' अधर्मास्तिकायः स्थितिः स्थानं गतिनिवृत्तिरित्यर्थः, तलक्षणमस्येति स्थानलक्षणः, स हि स्थितिपरिणतानां जीवपुद्गलानां स्थितिलक्षणकार्य प्रत्यपेक्षाकाकारणत्वेन व्याप्रियत इति तेनैव लक्ष्यत इत्युच्यते, अनेनाप्यनुमानमेव सूचितं, तवेदम्-यद्यत्कार्य तत्तदपेक्षाकारण बद्, यथा घटादि, कार्य चासौ स्थितिः, यच तदपेक्षाकारणं तदधर्मास्तिकाय इति, अत्र च नैयायिकादिः सौगतो* वा वदेत्-नास्ति अधर्मास्तिकायः,अनुपलभ्यमानत्वात् , शशविपाणवत्, तत्र यदि नैयायिकादिस्तदाऽसौ वाच्यः-कथं भवतोऽपि दिगादयः सन्ति ?, अथ दिगादिप्रत्ययलक्षणकार्यदर्शनाद , भवति हि कार्यात्कारणानुमानम् , एवं सति || स्थितिलक्षणकार्यदर्शनादयमप्यस्तीति किन गम्यते ?, अथ तत्र दिगादिप्रत्ययकार्यस्पान्यतोऽसम्भवात्कारणभूतान् |दिगादीननुमिमीमह इति मतिः,इहाप्याकाशादीनामवगाहदानादिस्खखकार्यव्यापृतत्वेन ततोऽसम्भवादधर्मास्तिकायस्यैव स्थितिलक्षणं कार्यमिति किं नानुमीयते ?, अथासौ न कदाचिद् दृष्टः, एतहिगादिष्वपि समानम् । अथ सौगतः १ असीति निर्विकल्पो जीवो नियमात् शब्दत एव सिद्धिः । कस्मात् ? शुद्धपदत्वात् घट खरशङ्गानुमानात् ।। १ ।। दीप अनुक्रम [१०८४-१०८७ पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~152
SR No.035037
Book TitleSavruttik Aagam Sootraani 1 Part 37 Uttaradhyayan Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy