SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ आगम (४३) [भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२८], मूलं [-] / गाथा ||४|| नियुक्ति: [५०२...] प्रत सूत्रांक |दिभिरक्षराण्युपलभमानस्य शेषेन्द्रियगृहीतं वाऽर्थ विकल्पयतोऽक्षरारूपितं विज्ञानमुपजायते तदिह भावश्रुतं श्रुतशब्देदानोक्तं, तथाऽभिमुखो योग्यदेशावस्थितवस्त्वपेक्षया नियतः स्वखविषयपरिच्छेदकतयाऽवबोधः-अवगमोऽभिनिवोधः। स एवाभिनिबोधिक,विनयादित्वात्खार्थिकष्ठक, ओहि'त्ति अवशब्दोऽधःशब्दार्थः, ततश्चाध इत्यधस्ताद्धावति अधोऽधा विस्तृतविषयवेदकतयेत्यवधिः, औणादिको डिः, यद्वा 'अवे'त्यध एव धानं धातूनामनेकार्थत्वात्परिच्छेदोऽवधिः, 'उपसर्ग घोः कि'रिति (पा०३-३-९२)किः,अथवाऽवधिः-मर्यादा रूपियेव द्रव्येषुपरिच्छेदकतया प्रवृत्तिरित्येवंरूपा, तदुपलक्षितं ज्ञानमण्यवधिः,ज्ञायतेऽनेनेति ज्ञातिर्वा ज्ञानं,ततोऽवधिश्चासौ ज्ञानं चावधिज्ञानं,तृतीयं तृतीयस्थानवर्तित्वात् , 'मणणाणं'तिमनःशब्देन द्रव्यपर्याययोः कथञ्चिदभेदात् मनोद्रव्यपर्याया गृह्यन्ते,तेषु तत्तत्सज्ञिविकल्पहेतुषु ज्ञानं मनोज्ञानं, तानेव हि मनःपर्यायज्ञानी साक्षादेव बुध्यते,न तु बाह्यान् ,अनुमानगम्यमानत्वात्तेषाम् ,उक्तं हि-"जाणति वज्झेऽणुमाणाओ"ति, 'चः' समुञ्चये भिन्नक्रमस्ततः केवलं च, तत्र केवलम्-एकमकलुपं सफलमसाधारणमनन्तं |च ज्ञानमिति प्रक्रमः, उक्तं हि-"केवलंमेगं सुद्धं सकलमसाधारण अणंतं च ।" आह-नन्यादिषु मतिज्ञानानन्तरं श्रुतज्ञानमुक्तं तदिह किमर्थमादित एव श्रुतोपादानम् , उच्यते, शेषज्ञानानामपि खरूपज्ञानस्य प्रायस्तदधीनत्वेन दप्राधान्यख्यापनार्थमिति सूत्रार्थः । साम्प्रतं ज्ञानशब्दस्य सम्बन्धिशब्दत्वाद्येषां तज्ज्ञानं तान्यभिधातुमाह १ जानाति बाह्याननुमानात् २ केवलमेकं शुद्धं सकलमसाधारणमनन्तं च । दीप अनुक्रम [१०७९] JABERatinintamational पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति: ~147
SR No.035037
Book TitleSavruttik Aagam Sootraani 1 Part 37 Uttaradhyayan Mool evam Vrutti Part 3
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages466
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size96 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy