________________
आगम (४३)
[भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२७], मूलं [-] / गाथा ||९-१४|| नियुक्ति: [४९५...]
प्रत सूत्रांक ||९-१४||
न सा-श्राविका मा प्रत्यभिजानाति, अप्रत्यभिज्ञानाच न वेत्ति, नैव सा मह्यं दास्यति विवक्षितमौषधादीति गम्यते इति हेतुहेतुमद्भावेन व्याख्येयं, स्वतत्रतया वा न सा मां विजानाति, नापि सा मयं दास्यतीत्साह, यदिवा निर्गता
गृहादिदानी सा भविष्यतीति मन्ये इति वक्ति, अथवा साधुः 'अन्यः' मद्यतिरिक्तः 'अत्र' विवक्षितप्रयोजने मानजतु, किमहमेपैकः साधुरस्मीसभिधत्ते । अन्यच 'प्रेषिताः क्वचित्तथाविधप्रयोजने प्रस्थापिताः 'पलिउंचंति'त्ति तत्प्रयोजनानिष्पादने पृष्टाः सन्तोऽपहुवते-क वयमुक्ताः?,गता वा तत्र वयं, न त्वसौ रष्टेति, पठ्यते च-पोसिया पलिउंचंति' पोषिताः-आहारोपकरणादिना श्रुतादिना च पुष्टिं नीता अपहुंचते-यथा किमस्माकं गुरुभिः कृतमित्यपलपन्ति | |'ते' दुःशिष्याः 'परियंति' पर्यटन्ति 'समन्ततः' सर्वासु दिक्षु, न गुरुसन्निधौ कदाचिदासते, मा कदाचिदेषां किञ्चित्कृत्यं भविष्यतीति, कथञ्चित्संनिधाने वा कर्तुं प्रवृत्ती 'राजवेटिमिय' नृपतिहठप्रवर्त्तितकृत्यमिव 'मन्यमानाः' मन-2 स्यवधारयन्तः कुर्वन्ति 'भ्रकुटीम्' आवेशवशकृतभूत्क्षेपरूपां 'मुखे' वक्के, अत्यन्तदुष्टताख्यापकमेतत् तदन्यवपुर्चिकारोपलक्षणं च । अपरञ्च-'वाचिताः' शास्त्राणि पाठिताः, उपलक्षणत्वात्तदर्थं च प्राहिताः, किमाचार्यान्तरसत्का एव सन्त उतान्यथेत्याह-संगृहीताः' परिगृहीताश्चशब्दाद् दीक्षिता उपस्थिताश्च खयमिति गम्यते, एवेति पूरणे, 'भक्त-४ पानेन' च सुलिग्धमधुरादिना, सूत्रे च सुब्व्यत्ययात्तृतीयार्थे सप्तमी, पोषिताः' उपचितीकृताः, तथापि 'जातपक्षा' | उत्पनपतत्रा यथा हंसाः प्रकर्षण-अतिविप्रकृष्टदेशान्तरगमनलक्षणेन कामन्ति-गच्छन्ति प्रक्रामन्ति 'दिसोदिसिं'ति
दीप अनुक्रम [१०६७-१०७
4-%AC%25%
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~139~