________________
आगम
(४३)
प्रत
सूत्रांक
||९-१४||
दीप
अनुक्रम
[१०६७
-१०७२]
[भाग-३७] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) निर्युक्ति: [४९५...]
अध्ययनं [२७],
मूलं [ - ] / गाथा ||९-१४||
'भज्यन्ते' न सम्यक् प्रवर्त्तन्ते 'धिइदुच्चल' ति प्राकृतत्वाद् दुर्बलधृतयो धर्मानुष्ठानं प्रतीति गम्यत इति सूत्रार्थः ॥ श्रुतिदुर्बलत्वमेव तेषां भावयितुमाह
इहीगारचिए एगे, एगित्थ रसगारवे । सायागारविए एगे, एगे सुचिरकोहणे ॥ ९ ॥ भिक्खालसिए एगे, एगे ओमाण भीरुए थद्धे । एगं च अणुसासंमी, हेऊहिं कारणेहि य ॥ १० ॥ सोऽवि अंतरभासिलो, दोसमेव पकुब्बई । आयरियाणं तं वयणं, पडिकूलेइ अभिक्खणं ॥ ११ ॥ न सा मम वियाणाइ, नवि सा मज्झ दाहिई । निग्या होहिई मन्ने, साहू अन्नोऽत्थ वच्च ॥ १२ ॥ पेसिया पलियंचति, ते परियंति समंतओ रायविट्ठि व मन्नंता, करिति भिउर्डि मुहे ॥ १३ ॥ वाइया संगहिया चेव, भत्तपाणेहिं पोसिया । जायपक्खा जहा हंसा, पक्कमंति दिसोदिसिं ॥ १४ ॥
'गारवित्ति या गौरवं श्राद्धा ऋद्धिमन्तो मम वश्याः संपद्यते च यथाचिन्तितमुपकरणमित्याद्यात्मवहुमानरूपमृद्धिगौरवं तदस्यास्तीति ऋद्धिगौरविको न गुरुनियोगे प्रवर्त्तते किमेतैर्ममेति एकः कश्चन, 'एकः' अन्योऽत्रेति दुःशिष्याधिकारे 'रसगारवे 'ति रसेषु-मधुरादिषु गौरवं -गार्ज यस्यासौ रसगौरवो वालग्लानादिसमुचिताहारदानतपोऽनुष्ठानादौ न प्रवर्त्तते, 'सायागारविए'त्ति साते-सुखे गौरवं प्रतिबन्धः सातगौरवं तदस्यास्तीति सातगौरविक एकः, सुखप्रतिबद्धो हि नाप्रतिबद्धविहारादौ प्रवर्त्तितुं क्षमः, एकः 'सुचिरक्रोधनः' प्रभूतकालको पनशीलः,
Education national
For Use Only
www.ncbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~ 137~