________________
आगम (४३)
[भाग-३७] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [२७], मूलं [-] / गाथा ||१|| नियुक्ति: [४९५...]
प्रत
सत्राक
||१||
धेरे गणहरे गग्गे, मुणी आसि विसारए । आइन्ने गणिभावम्मि, समाहिं पडिसंधए ॥१॥ धर्मेऽस्थिरान् स्थिरीकरोतीति स्थविरः, उक्तं हि-"घिरकरणा पुण थेरो" गणं-गुणसमूहं धारयति-आत्मन्यवस्थापयतीति गणधरः 'गार्यः' गर्गसगोत्रः तथा मुणिति-प्रतिजानीते सर्वसावद्यविरतिमिति मुनिः 'आसीत्, अभूत् 'विशारदः' कुशलः सर्वशास्त्रेषु सङ्ग्रहोपग्रहयो, 'आकीर्णः' आचार्यगुणैराचारश्रुतसम्पदादिभिर्व्याप्तः। परिपूर्ण इतियावत् , 'गणिभावे' आचार्यत्वे स्थित इति गम्यते, 'समाहिं पडिसंधए'त्ति समाधानं समाधिः, सच |द्विधा-द्रव्यतो भावतश्च, तत्र द्रव्यसमाधिर्यदुपयोगात्खास्थ्यं भवति, यथा(वा) पयःशर्करादिद्रव्याणां परस्परमविरोधः, भावसमाधिस्तु ज्ञानादीनि, तदुपयोगादेवानुपमखास्थ्ययोगात्, तह भावसमाधिभ्यते, ततः समाधि 'प्रतिसंधत्ते' कर्मोदयात् त्रुटितमपि संघट्टयति, तथाविधशिष्याणामिति गम्यते इति सूत्रार्थः॥ समाधि च प्रतिसंदघद्यथाऽसौ शिष्येभ्य उपदिशति तथाऽऽह
घहणे वहमाणस्स, कंतारं अइवत्तए । जोए वहमाणस्स, संसारो अइवत्तए ॥२॥ उद्यतेऽनेन वोढव्यमिति वहनं-शकटादिस्तस्मिन् योजितस्येति गम्यते, 'वहमानस' सम्यक्प्रवर्त्तमानस्योत्तरत्र खलुङ्कग्रहणादिह विनीतगवादेरिति गम्यते, अतिक्रम्यातिक्रमणसम्बन्धे षष्ठी, वाहकाविनाभूतत्वाचास वाहकस्य १ खिरकरणात्पुनः स्थविरः
दीप अनुक्रम [१०५९]]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~133