________________
आगम
(४३)
प्रत
सूत्रांक
||३८
-५१॥
दीप
अनुक्रम
[१०४४-]
-१०५७]
[भाग-३७] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [--] / गाथा || ३८-५१ || निर्युक्ति: [४८६...]
अध्ययनं [२६],
चिंतेइ तत्थ इमं ॥ १ ॥ तइए निसाइयारं" ति रात्रिकोऽतिचारश्च यथा यद्विषयश्च चिन्तनीयस्तथाऽऽह-रात्रौ भवं रात्रिकं 'चः' पूरणे अती चारं चिन्तयेत् 'अणुपुवसो'त्ति आनुपूर्व्या क्रमेण ज्ञाने दर्शने चारित्रे तपसि चशब्दाद्वीर्ये च, शेषकायोत्सर्गेषु चतुर्विंशतिस्तवः प्रतीतश्चिन्त्यतया साधारणश्चेति नोक्तः । ततश्च पारितेत्यादिसूत्रद्वयं व्याख्यातमेव, कायोत्सर्गस्थितश्च किं कुर्यादित्याह - 'कि' मिति किंरूपं 'तपो' नमस्कारसहितादि प्रतिपद्येऽहम्, एवं तत्र विचिन्तयेत् वर्द्धमानो हि भगवान् षण्मासं यावन्निरशनो विहृतवान्, तत्किमहमपि निरशनः शक्नोम्ये| तावत्कालं स्थातुमुत नेति ?, एवं पञ्चमासाद्यपि यावन्नमस्कारसहितं तावत्परिभावयेद, उक्तं हि "चिंते चरमे उ | किं तवं काई ? | छम्मासामेकदिणादिहाणि जा पोरिसि नमो वा ॥ २ ॥” उत्तरार्द्ध स्पष्टम् एतदुक्तार्थानुवादतः सामाचारीशेषमाह-'पारिए'त्यादि प्राग्वत्, नवरं 'तपः' यथाशक्ति चिन्तितमुपवासादि 'संप्रतिपद्य' अङ्गीकृत्य कुर्यात् सिद्धानां 'संस्तर्व' स्तुतित्रयरूपं, तदनु च यत्र चैत्यानि सन्ति तत्र तद्वन्दनं विधेयं, तथा चाह भाष्यकारः"वंदितु निवेयंती कालं तो चेइयाइ यदि अस्थि । तो बंदती कालं जह य तुलेउं पडिकमणं ॥ १॥” इति सार्द्धत्रयोदशसूत्रार्थः ॥ सम्प्रत्यध्ययनार्थमुपसंहरन्नाह
१ चिन्तयेत् चरमे तु किं तपः करिष्यामि ? | षण्मास्या एकदिनादिहानिः यावत् पौरुषी नमस्कारसहितं वा ॥१॥ २ वन्दित्वा निवेदयन्ति कालं ततश्चैत्यानि यदि सन्ति । तदा वन्दन्ते कालं यथा च तोलयित्वा प्रतिक्रमणम् ॥ १ ॥
Education intol
For PPs Use Only
www.ncbrary.org
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३] मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
~ 127 ~