________________
आगम (४३)
[भाग-३७] “उत्तराध्ययनानि"- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:) अध्ययनं [२६], मूलं [--] / गाथा ||४३...|| नियुक्ति : [४८०-४८५]
प्रत सूत्रांक
||४३||
COCCASCCCCC
णिक्खेयोइत्यादि गाथाः पटू प्रायः प्रतीतार्थाः, सूत्रव्याख्याने च काश्चिद्याख्यास्यन्ते, नवरं 'तयतिरिक्तंच ज्ञशरीरभन्यशरीरव्यतिरिक्तं च द्रव्यसाम शर्करादिषु, आदिशब्दात्क्षीरादिपरिग्रहः, ततश्च शर्कराक्षीरदधिगुडादीनां यत्परस्परमविरोधेन व्यवस्थानं, भावे साम दशविध 'खलुः' अवधारणे दशविधमेवेच्छामिथ्यादिकं सामाचारीखरूपमिति गम्यते, भावसामत्वं चास्य तात्त्विकस्स क्षायोपशमिकादिभावरूपत्वात् परस्परमविरोधेन चावस्थानात्, तथा प्रत्येकप्ररूपणां वक्ष्ये इति प्रतिज्ञामभिधाय यत् प्ररूपणानभिधानं तदावश्यकनियुक्ती कृतत्वात्तगाथयोरेव चैक|कर्तृकत्वेनेह लिखितत्वान्न दुष्टमिति भावनीयं, सूत्रक्रमोलङ्घनं तु यथाविषयं सर्वेषां सदाकृत्यत्वेन पूर्वापरभावस्थाभावप्रदर्शनार्थ, तथा तबइरित्ते य णामणाईसुन्ति सोपस्कारत्वान्नामनधावनादिषु सुकराणि यानि द्रव्याणि तानि तयतिरिक्तो द्रव्याचार उच्यते, यत उक्तम्-"णामणधोवणवासणसिक्खावणसुकरणाविरोहीणि । दवाणि जाणि लोए दवा-3 यारं वियाणाहि ॥ १॥" भावे दशविधाया इच्छादिभेदेन सामाचार्या आचरणा, अत्र बहुलग्रहणात्त्रियां युद, एवमाप्रच्छनादिष्यपि, भावत्वं तु जीवद्रव्यपर्यायत्वादस्खेति गाथाषट्कार्थः ॥ सम्प्रत्यध्ययननामान्वर्थमाहइच्छाइसाममेसुं आयरणं वषिणअं तु जम्हेत्थ । तम्हा सामायारी अज्झयणं होइ नायवं ॥ ४८६ ॥ १ नामनधावनवासनशिक्षणमुकरणाविरोधीनि । द्रव्याणि यानि लोके द्रव्याचारं विजानीहि ॥ १॥
दीप
अनुक्रम
[१००६]
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~100