SearchBrowseAboutContactDonate
Page Preview
Page 466
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ॥२-१०॥ दीप अनुक्रम [७७४ -७८२] [भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं + निर्युक्तिः+वृत्तिः) निर्युक्तिः [४२४,,,] अध्ययनं [२१], मूलं [--] / गाथा ||२-१०|| | व्यवहरते तद्गुणाकृष्टचेताः कश्चिद्वाणिजो 'ददाति' यच्छति 'धूयरं 'ति दुहितरम्, उदृढवांश्च तामसी, स्थित्वा च तत्र कियन्तमपि कालं तां 'ससत्त्वा'मित्यापन्नसत्त्वां 'परिगृस' आदाय वदेशम् 'अथ' अनन्तरं 'प्रस्थितः' चलितः । तत्र चागच्छतोऽथ पालितस्य गृहिणी 'समुद्र' जलधी 'प्रसूते' गर्भ विमुञ्चति खेति शेषः, 'अथेत्युपन्यासे 'दारकः' सुतः 'तस्मिन्' इति प्रसवने 'जातः' उत्पन्नः समुद्रपाल इति 'नामतो' नामाश्रित्य । क्रमेण चागच्छन् 'क्षेमेण' कुशलेनागतम्पाय श्रावको वाणिजः 'घर'ति चस्य गम्यमानत्वाद् गृहं च खकीयं कृतं च तत्र वर्द्धापनकादि, संवर्द्धते च 'गृहे' वेश्मनि, 'तस्य' इति पालिताभिधानवणिजो दारकः सः 'सुखोचितः' सुकुमारः । एवं च प्राप्तः कलाग्रहणयोग्यतां द्विसप्ततिकलाश्च शिक्षितः, शिक्षते वा पाठान्तरतः, जातश्च 'नीतिकोविदः' न्यायाभिज्ञः, 'जोबणेण य अप्फुण्णे'त्ति, चस्य भिन्नक्रमत्वाद्यौवनेन 'आपूर्णश्व' परिपूर्णशरीरश्च, पठ्यते च ' जोवणेण य संपण्णे'त्ति, तत्र च 'संपन्नः' युक्तोऽत एव 'सुरूपः' सुसंस्थानः 'प्रियदर्शनः सर्वस्यैवानन्ददाता । परिणयनयोग्यतां च तस्य विज्ञाय 'रूपवती' विशिष्टकृतिं भार्या' पत्नीं 'पिता' पालितवणिग् 'आनयति' तथाविधकुलादागमयति 'रूपिणीं' रूपिणीनानीं, परिणायितश्च तामसी, प्रासादे क्रीडति -रमंति तथा सह 'रम्ये' अभिरतिहेतौ देवो दोगुन्दको यथा । अथान्यदा | कदाचित 'प्रासादालोकने' उक्तरूपे स्थितः सन् बधमर्हति वध्यस्तस्य मण्डनानि रक्तचन्दनकरवीरादीनि तैः | शोभा - तत्कालोचितपरभागलक्षणा यस्यासौ वध्यमण्डनशोभाकस्तं 'वध्यं' वधाई कञ्चन तथाविधाकार्यकारिणं Education Intematinal For Persona Prat www.yo पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः ~466~
SR No.035036
Book TitleSavruttik Aagam Sootraani 1 Part 36 Uttaradhyayan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy