________________
आगम (४३)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [२०], मूलं [-] / गाथा ||१|| नियुक्ति: [४२२R...]
25XAS
प्रत सूत्रांक
ACC
सितं-बद्धमिहाष्टविधं कर्म तद् मातं-भस्मसातमेपामिति सिद्धा:-ध्यानानलनिर्दग्धाष्टकर्मेन्धनाः, उक्तं हि"सियं धंतन्ति सिद्धस्स, सिद्धत्तमुवजायति"त्ति, तेभ्यः, कोऽभिप्रायः-तीर्थकरसिद्धेभ्य इतरेभ्यश्च 'नमो नम-12 स्कारं 'कृत्वा'-विधाय 'संयतेभ्यश्च' सकलसावद्यन्यापारोपरतेभ्य आचार्योपाध्यायसर्वसाधुभ्यः इतियावत् ४ | भावतः' परमार्थतो न तु संवृत्त्यैव, इत्थं पञ्चपरमेष्ठिरूपेष्टदेवतास्तवमभिधायाभिधेयादित्रयमेवाह-अर्थश्च धर्मश्वार्थधौं यदिवाऽयंते-हितार्थिभिरभिलप्यते इत्यर्थः, स चासौ धर्मश्चार्थधर्मस्ततस्तयोस्तस्य वा गतिः-त्यर्थानां ज्ञानार्थतया हिताहितलक्षणा स्वरूपपरिच्छित्तिर्यया यस्यां वा साऽर्थधर्मगतिस्तां, पाठान्तरतोऽर्थधर्मवती वा ४ 'तचंति तथ्याम्-अविपरीताम् 'अनुशिष्टिं हितोपदेशरूपां शिक्षा 'शृणुत' आकर्णयत 'मे' इति मम मया वा कथयतः कथ्यमानां वेति शेषः, स्थविरवचनमेतत् , अनेन च पूर्वोत्तरकालभाबिक्रियाद्वयानुगतेककर्तृप्रतिपादनेनात्मनो नित्यानित्यत्वमाह, एकान्तनित्यत्वे बविचलित रूपत्वान्न पूर्व क्रियाकर्तृत्वखरूपपरिहारेणोत्तरक्रियाकर्तृत्वाख्यख| रूपान्तरसम्भवः, एकान्तानित्यत्वपक्षे तु क्षणध्वंसित्वादुत्तरक्रियाकाल आत्मनोऽसत्त्वमेवेति नैकान्तनित्यानित्यपक्षयोः पूर्वोत्तरक्रियानुगतैककर्तृसम्भव इति भावनीयम् , इह चानुशिष्टिरभिधेया, अर्थधर्मगतिः प्रयोजनम् , अनयोश्च परस्परमुपायोपेयभावलक्षणः सम्बन्धः सामर्थ्यादुक्त इति सूत्रार्थः ॥ सम्प्रति धर्मकथानुयोगत्वादस्य धर्मकथाकथनव्याजेन प्रतिज्ञातमुपक्रमितुमाह
**
दीप अनुक्रम [७१३]
*
*****
mtouRA
rima
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~444~