SearchBrowseAboutContactDonate
Page Preview
Page 426
Loading...
Download File
Download File
Page Text
________________ आगम (४३) प्रत सूत्रांक ||७६ -८३|| दीप अनुक्रम [६९० -६९७] [भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) मूलं [-] / गाथा || ७६-८३|| निर्युक्तिः [४१४...] अध्ययनं [१९], र्या मृगाश्रयभूस्ताम् । अनेन च सूत्रपञ्चकेन दृष्टान्त उक्तः, उत्तरेण सूत्रद्वयेनात्मन्येत दुपसंहारः, इह च 'एव' मिति मृगवत्समुत्थितः - संयमानुष्ठानं प्रत्युद्यतस्तथाविधाऽऽतङ्कोत्पत्तावपि न कश्चित् चिकित्साऽभिमुख इति भावः, 'एवमेव' मृगबदेव 'अणेगय'त्ति अनेकगो यथा ह्यसौ वृक्षमूले नैकस्मिन्नेवास्ते किन्तु कदाचित्कचिदेवमेषोऽप्यनियतस्थानस्थतया, पठ्यते च- 'अणिएयणे 'ति 'अनिकेतनः' अग्रहः, स चैवं मृगचर्यं चरित्वा मृगवदातङ्काभावे भक्तपानार्थं गोचरं गत्वा तलब्धभक्तपानोपष्टम्भतश्च विशिष्टसम्यग्ज्ञानादिभावतः शुक्लध्यानारोहणादपगताशेषकर्माश ऊर्द्ध दिशमिति सम्बन्धः प्रकर्षेण क्रामति-गच्छति प्रक्रामति, किमुक्तं भवति ? - सर्वोपरिस्थानस्थितो भवति, निर्वृत इतियावत्, एवं च निर्वृतिरेवेह मृगचर्योपमार्थत उक्ता, तत्र हि मृगोपमा मुनय इत इतश्चाप्रतिवद्धविहारितया विहृत्य गच्छन्तीति ॥ मृगचर्यामेव स्पष्टयितुमाह-यथा मृगः 'एग'त्ति 'एकः' अद्वितीयः 'अनेकचारी' नैकत्रैव भक्तपानार्थं चरतीत्येवंशीलः, 'अनेकवासः' नैकत्र वासः - अवस्थानमस्यास्तीति, 'ध्रुवगोचरश्च' सर्वदा गोचरलब्धमेवाहारमाहारयतीति, 'एवं' मृगवदेकत्वादिविशेषणविशिष्टो मुनिः 'गोचर्यो' भिक्षाटनं प्रविष्टो न 'हीलयेद्' अवजानीयात् कदशनादीति गम्यते, नापि च 'खिसएज'ति निन्देत्तथाविधाहाराप्राप्तौ खं परं वा । इह च मृगपक्षिणामुभयेषामुपक्षेपे यन्मृगस्यैव पुनः पुनर्दृष्टान्तत्वेन समर्थनं तत्तस्य प्रायः प्रशमप्रधानत्वादिति सम्प्रदाय इति सूत्राष्टकार्थः ॥ एवं मृगचर्या स्वरूपमुक्त्वा यत्तेनोक्तं यच पितृभ्यां पितृवचनानन्तरं च यदसौ कृतवांस्तदाह Jan Education intemational For Parna Prat पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र[ ४३] मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः ~426~
SR No.035036
Book TitleSavruttik Aagam Sootraani 1 Part 36 Uttaradhyayan Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages482
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_uttaradhyayan
File Size99 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy