________________
आगम
(४३)
प्रत
सूत्रांक
॥५-८||
दीप
अनुक्रम
[६१८
-६२१]
[भाग-३६] “उत्तराध्ययनानि ” - मूलसूत्र - ४ ( मूलं+निर्युक्तिः+वृत्तिः) अध्ययनं [१९], मूलं [-] / गाथा ||५-८||
निर्युक्ति: [४०७R-४१३]
| ग्रहात्मकः संयमश्च- उक्तरूपस्तान् धारयति तपोनियमसंयमधरस्तम्, अत एव शीलम् - अष्टादशशीलाङ्गसहस्ररूपं तेनाढ्यं परिपूर्ण शीलाढ्यं तत एव च गुणानां-ज्ञानादीनामाकर इव गुणाकरस्तं ॥ 'तमिति श्रमणसंयतं 'पेहद 'ति पश्यति 'मृगापुत्रः' युवराजः 'दृष्टया' दशा 'अणमिसाइ उ'त्ति तुशब्दस्यैवकारार्थत्वादविद्यमाननिमेपयैव, व 'मन्ये' जाने 'ईदृशम्' एवंविधं 'रूपम्' आकारो दृष्टपूर्वम्-अवलोकितं मया 'पुरा' इति पूर्वजन्मनि १, शेषं प्रतीतमेव, नवरम् 'अध्यवसाने' इत्यन्तःकरणपरिणामे 'शोभने' प्रधाने क्षायोपशमिकभाववर्त्तिनीतियावत् 'मोहं' केदं मया दृष्टं क्वेदमित्यतिचिन्तातश्चित्तसङ्घट्टजमूच्छीत्मकं 'गतस्य' प्राप्तस्य सतः ॥ तथा 'सरति'त्ति स्मरति पौराणिकी 'जाति' जन्म 'श्रामण्यं च ' श्रमणभावं 'पुराकृतं' जन्मान्तरानुष्ठितमिति सूत्रचतुष्टयार्थः ॥ एतदेवातिस्पष्टताहेतोरनुगदितुमाह निर्युक्तिकृत्—
| सुग्गीवे नयरंमि अ राया नामेण आसि बलभद्दो । तस्सासि अग्गमहिसी देवी उ मिगावई नामं ॥ ४०७ ॥ तेसिं दुण्हवि पुतो आसी नामेण बलसिरी धीमं । वयरोसभसंघयणो जुवराया चरमभवधारी ॥ ४०८ ॥ उन्नंदमाणहिअओ पासाए नंदणंमि सो रम्मे । किलई पमदासहिओ देवो दुकुंदगो चेव ॥ ४०९ ॥ अह अन्नया कथाई पासायतलंमि सो ठिओ संतो । आलोएइ पुरवरे रुंदे मग्गे गुणसमग्गे ॥ ४१० ॥
For Persona Prat
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र [ ४३], मूलसूत्र [४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्तिः
| मूल संपादने अत्र निर्युक्तिगाथा: क्रमांकने किञ्चित् स्खलना दृश्यते, यत् क्रमांक ||४०७|| ||४०८ || द्वीवारान् लिखितं
~ 404~