________________
आगम (४३)
[भाग-३६] “उत्तराध्ययनानि”- मूलसूत्र-४ (मूलं+नियुक्ति:+वृत्ति:)
अध्ययनं [१७], मूलं [-1 / गाथा ||६-१४|| नियुक्ति : [३९१...]
उत्तराध्य
पापश्रम
प्रत
॥४३४॥
सूत्रांक
||६-१४||
कम्बलं पात्रकम्बलं या प्रतीतमेव, समस्तोपध्युपलक्षणं चैतत्, स एवं 'प्रतिलेखनाऽनायुक्तः' प्रत्युपेक्षानुपयुक्तः,
शेषं सथैव ॥ तथा प्रतिलेखयति प्रमत्तः सन् 'किंचि हु'त्ति 'हु।' अपिशब्दार्थः, ततः किञ्चिदपि विकथादीति गम्यते, है। णिसामिति 'निशम्य आकर्ण्य तत्राक्षिसचित्ततयेति भावः, 'गुरुपरिभासय'त्ति गुरुन् परिभापते-विवदते
गुरुपरिभाषकः, पाठान्तरतो गुरुपरिभावकः, 'नित्यं' सदा, किमुक्तं भवति ?-असम्यक्प्रत्युपेक्षमाणोऽन्यद्वा वितथमाचरन् गुरुभिश्चोदितस्तानेय विवदतेऽभिभवति वाऽसभ्यवचनैः, यथा-खयमेव प्रत्युपेक्षध्वं, युष्माभिरेव वयमित्थं | शिक्षितास्ततो युष्माकमेवैप दोष इत्यादि, शेष तथैव, गुरुपरिभाषकत्वं प्रमत्तत्वस्य च निशमनहेतुत्वं पूर्वस्माद्विशेष इति न पौनरुक्त्यम् ॥ किञ्च-'बहुमायी' प्रभूतवञ्चनाप्रयोगवान् प्रकर्षण मुखरः प्रमुखरः स्तब्धो लुब्ध इति च प्राग्वत्,
अविद्यमानो निग्रहः-इन्द्रियनोइन्द्रियनियत्रणात्मकोऽस्येत्यनिग्रहः, संविभजति-गुरुग्लानबालादिभ्य उचितमशसानादि यच्छतीत्येवंशीलः संविभागीन तथा य आत्मपोषकत्वेनैव सोऽसंविभागी, 'अचियत्तेति गुर्वादिष्वप्रीतिमान् , शेपं पूर्ववत् ॥ अन्यच्च-विरूपो वादो विवाद:-वाकलहस्तं 'चः' पूरणे 'उदीरेइ'त्ति कथञ्चिदुपशान्तमप्युपासनादिना वृद्धि नयति, 'अधर्मः' अविद्यमानसदाचारः 'अत्तपण्हह'त्ति आत्मनि प्रश्नः आत्मप्रश्नस्तं हन्त्यात्म- प्रश्नहाः, यदि कश्चित्परः पृच्छेत्-किं भवान्तरयायी आत्मा उत नेति ?, ततस्तमेव प्रश्नमतियाचालतया हन्ति, यथा |-नास्त्यात्मा प्रत्यक्षादिप्रमाणैरनुपलभ्यमानत्वात्, ततोऽयुक्तोऽयं प्रश्नः, सति हि धर्मिणि धर्माश्चिन्त्यन्त इति, पठ्यते
%
*
दीप अनुक्रम [५४४-५५२]
४३४॥
Furammarwata tiwand
पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र[४३), मूलसूत्र[४] उत्तराध्ययनानि मूलं एवं शान्तिसूरिविरचिता वृत्ति:
~369~